________________
२-१७,१८,१९]
ध्वन्यालोकः
रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् । एकेनैव प्रयत्नेन निर्वर्त्यन्ते महाकवेः ॥ यमकादिनिबन्धे तु पृथम्यत्नोऽस्य जायते । शक्तस्यापि रसेऽङ्गत्वं तस्मादेषां न विद्यते ॥ रसाभासाङ्गभावस्तु यमकार्न वा । ध्वन्यात्मभूते शृङ्गारे त्वङ्गता नोपपद्यते ॥
इदानीं ध्वन्यात्मभूतस्य शृङ्गारस्य व्यञ्जकोऽलङ्कारवर्ग आख्यायते --
ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः । रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥ १७ ॥
यथा
अलङ्कारो हि बाह्याङ्कारसाम्यादङ्गिनश्चारुत्व हेतुरुच्यते । वाच्याकङ्कारवर्गश्च रूपकादिर्यावानुक्तो वक्ष्यते च कैश्चित् अलङ्काराणामनन्तत्वात्स सर्वोऽपि यदि समीक्ष्य विनिवेश्यते तदलक्ष्यक्रमव्ययस्य ध्वनेरङ्गिनः सर्वस्यैव चारुत्वहेतुर्निष्पद्यते ।
एषा चास्य विनिवेशने समीक्षा
―
विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन । काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥ १८ ॥ निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् । रूपकादेरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥ १९ ॥
रसबन्धेष्वत्यादृतमनाः कविर्यमलङ्कारं तदङ्गतया विवक्षति ।
२७
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।