________________
ध्वन्यालोकः
[२-१६ सौकुमार्यातिशयः ख्याप्यते । तम्मिन्द्योत्ये यमकादेरङ्गम्य निबन्धो नियमान्न कर्तव्य इति ।
अत्र युक्तिरभिधीयते - रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् । अपृथग्यत्ननिर्वर्त्यः सोऽलङ्कारो ध्वनो मतः ॥ १६ ।।
निष्पत्तावाश्चयभृताऽपि यम्यालङ्कारम्य रसाक्षिप्ततयेव बन्धः शक्यक्रियो भवेत्सोऽस्मिन्न लक्ष्यक्रमव्यङ्गय ध्वनावलङ्कारो मतः । तम्यैव रसाङ्गत्वं मुस्यमित्यर्थः । यथा
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृयोऽधररमः । मुहुः कण्ठे लग्नम्तरलयति बाप्पः स्तनतटी प्रियो मन्यु तम्तव निरनुरोधे न तु वयम ||
रसाङ्गत्वे च तस्य लक्षणमपृथग्यत्ननिर्वत्यत्वमिति यो रसं बन्धुमध्यवसितस्य कवेर लङ्कारस्तां वामनामत्यूह्य यत्नान्तरमास्थितम्य निप्पद्यते म न रमाङ्गमिति । यमके च प्रबन्धेन बुद्धि पूर्वकं क्रियमाणे नियमेनैव यत्नान्तरपरिग्रह आपतति शब्दविशेषान्वेषणरूपः । अलङ्कारान्तरेष्वपि तत्तुल्यमिति चेत्, नैवम । अलङ्कारान्तराणि हि निरूप्यमाणदुर्घटनान्यपि रससमाहितचेतसः प्रतिभानक्तः कवरहम्यूविकया परापतन्ति । यथा कादम्बयां कादम्बरीदशनावमरेः यथा च मायारामशिरोदशनन विह्वलायां सीतादेव्यां मेतो । युक्तं चैतत्, यतो रसा वाच्यविशेषेरेवाक्षेप्तव्याः । तत्प्रतिपादकेश्च शस्तत्प्रकाशिनो वाच्यविशेषा एव रूपकादयोऽलङ्काराः । तस्मान्न तेषां बहिरङ्गत्वं रसाभिव्यक्तौः यमकदुष्करमार्गेषु तु तस्थितमेव । यत्तु रमवन्ति कानिचिद्यमकादीनि दृश्यन्ते, तत्र रमादीनामङ्गताः यमकादीनां त्वङ्गितैव । रसाभामे चाङ्गत्वमप्यविरुद्धम् । अङ्गितया तु व्यङ्गचे रसे नाङ्गत्वं, पृथक्प्रयत्ननिवर्त्यत्वाद्यमकादेः । अस्यैवार्थम्य सङ्ग्रह श्लोकाः