________________
२-५]
ध्वन्यालोकः इत्यत्र त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वे इंप्यविप्रलम्भम्य श्लेषसहितम्याङ्गभाव इति, एवंविध एव रसवदलङ्कारस्य न्याय्यो विषयः । अत एव चेप्याविप्रलम्भकरुणयोरङ्गत्वेन व्यवस्थानात्समावेशो न दोषः । यत्र हि रसस्य वाक्यार्थीभावस्तत्र कथमलङ्कारत्वम् ? अलङ्कारो हि चारुत्वहेतुः प्रसिद्धः; न त्वसावात्मैवात्मनश्चारुत्वहेतुः । तथा चायमत्र संक्षेपः –
रसभावादितात्पर्यमाश्रित्य विनिवे शनम् । असतीनां सर्वासामलङ्कारत्वसाधनम् ।।
तस्माद्यत्र रसादयो वाक्यार्थीभूताः स सर्वः न रसादेरलङ्कारस्य विषयः; स ध्वनेः प्रभेदः, तस्योपमादयोऽलङ्काराः । यत्र तु प्राधान्यनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिप्पत्तिः क्रियते. स रसादेरलङ्कारताया विषयः ।
एवं ध्वनेरुपमादीनां रसवदलङ्कारम्य च विभक्तविषयता भवति ।
यदि तु चेतनानां वाक्यार्थीभावो रमाद्यलङ्कारम्य विषय इत्युच्यते तईपमादीनां प्रक्रिलक्षियता निर्विषयता वाभिहिता स्यात् । यम्मादचेतनस्तुवृत्ते वाक्यार्थीभूते पुनश्चेतनवस्तुवृत्तान्तयोजनया यथाकथञ्चिद्भवितव्यम् । अथ सत्यामपि तम्यां यत्राचेतनानां वाक्यार्थीभावो नामौ रसबदलङ्कारम्य विषय इत्युच्यते । तन्महतः काव्यप्रबन्धस्य रसनिधानभूतम्य नीरसत्वमभिहितं स्यात् । यथा
तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना विकर्षन्ती फेनं वमनमिव संरम्भशिथिलम् । यथाविद्धं याति मवलितमभिसन्धाय बहशी नदीरूपेणेयं ध्रुवमसहना मा परिणता ।।