________________
२२
यथा वा-
तन्त्री मेघजलाद्रेपलवतया धौताधग्वाश्रुभिः शून्येवाभरणैः स्वकालविरहादि श्रान्तपुष्पोमा । चिन्तामौनमित्राश्रिता मधुकृतां शब्दे विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापत्र मा ॥
यथा वा
ध्वन्यालोकः
:
तेषां गोपवधूविलाम सुहृदां राधारहः साक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनाम । विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ||
इत्येवमाद। विषयेऽचतनानां वाक्यार्थीभावेऽपि वेतनवस्तुवृत्तान्तयोज नात्येव । अथ यत्र चतनवस्तुवृत्तान्तयोजनम्ति तत्र रमादिर लङ्कारः : तदेवं मत्युपमादयां निर्विषयाः प्रविरल विषया वा स्युः । यस्मान्नास्त्येवामावचेतनवस्तुवृत्तान्तो यत्र चतनवस्तुवृत्तान्तयोजना नास्ति अन्ततो विभावत्वेन । तम्मादङ्गत्वेन च रमादीनामलङ्कारता । यः पुनरङ्गी रमाभावो वा सकारमलङ्कार्यः मध्वरात्मेति । किञ्च
तथाच -
[२-६,७
तमर्थमवलम्बते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्वलङ्काराः मन्तव्याः कटकादिवत् ॥ ६ ॥
ये तमर्थं रमादिलक्षणमाङ्गनं मन्तमवलम्बते ते गुणाः शौर्यादिवत् । वाच्यवाचकलक्षणान्यङ्गानि ये पुनराश्रितास्तेऽलङ्कारा मन्तव्याः कटकादिवत् ।
शृङ्गार एवं मधुरः परः प्रह्लादनो रसः ।
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ॥ ७ ॥