________________
ध्वन्यालाकः
ग्मभावतदाभासतत्प्रशमलक्षणं मुख्यमर्थमनुवर्तमाना यत्र शब्दाथा - लङ्कारा गुणाश्च परम्परं वन्यपेक्षया विभिन्नरूपा व्यवस्थिताम्तत्र काव्ये वनिरिति व्यपदेशः ।
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गंतु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ ५॥
यद्यपि रसवदलङ्कारम्यान्यदशितो विषयम्तथापि यम्मिन् काव्ये प्रधानतयान्योऽर्थो वाक्यार्थीभूतम्तम्य बाङ्गभूता ये रसादयन्ते रसादेग्लङ्कारम्य विषया इति मामकीनः पक्षः । तद्यथा चाटुषु प्रेयोऽलङ्कारम्य वाक्यार्थत्वेऽपि रमादयोऽङ्गभूता दृश्यन्ते । म व रसादिरलङ्कारः शुद्धः संकीर्णो वा । तत्रायो यथा ।
किं हास्येन न मे प्रयाम्यसि पुनः प्राप्तश्रिरादर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । म्वप्नान्तप्विति ते वदन् प्रियतमव्यासक्तकण्ठग्रहो
बुद्धा रोदिति रिक्तबाहुवलयम्तारं रिपुम्त्रीजनः ।। इत्यत्र करुणरसम्य शुद्धम्याङ्गभावात्म्पष्टमेव रसवदलङ्कारत्वम् ।
एवमेवंविधे विषये रसान्तराणां म्पष्ट एवाङ्गभावः। सङ्कीर्णो रसादिरङ्गभूतो यथा
क्षिप्ता हस्तावलग्नः प्रसभमभिहतोऽ प्याददानोंऽशुकान्तं गृह्णन् केशेवपाम्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन्योऽवधूतम्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवाद्रोपराधः स दहतु दुरितं शाम्भवो वः शराग्निः ।।