________________
२-२,३,४]
वन्यालोकः अत्यन्ततिरस्कृतकाच्यो यथादिकवेर्वाल्माकेः –
रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। इति । अत्रान्धशब्दः । यथा च
गअणं च मत्तमेहं धारालुलिअज्जुणाइँ अ वणाइँ । जिरहङ्कारमिअङ्का हरन्ति णीलाओ वि णिसाओ ।। [ गगनं च मत्तमेवं धारालुलितार्जुनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः ।। छाया । भत्र मत्तनिरहङ्कारशब्दौ।
असंलक्ष्यक्रमोदयोतः क्रमेण घोतितः परः। विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः॥२॥
मुख्यतया प्रकाशमानो व्यङ्गयोऽर्थो ध्वनेरात्मा । स च वाच्यार्थापेक्षया कश्चिदलक्ष्यक्रमतया तुल्यं प्रकाशते, कश्चित्क्रमेणेति द्विधा मतः । तत्र
रसभावतदाभासतत्पशान्त्यादिरक्रमः । ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ ३॥
रसादिरों हि सहे व वाच्येनावभासते । स चाङ्गित्वेनावभासमानो ध्वनेरात्मा ।
इदानीं रसक्दलङ्कारादलक्ष्यक्रमद्योतनात्मनो ध्वनेर्विभक्तो विषय इति प्रदश्यते -
वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वनेविषयो मतः ॥ ४ ॥