________________
१-१९]
ध्वन्यालोकः
वनिरम्तीति नः पक्षः । म च प्रागेव मंमिद्ध इत्ययत्नसंपन्नममीहितार्थाः संवृत्ताः म्मः ।
येऽपि सहृदयहृदग्रसंवेद्यमनाख्येयमेव 'वनेरात्मानमाम्नामिषुम्तेऽपि न परीक्ष्यवादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादितेऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां प्रसक्तम् । यदि पुनर्वनेरतिशयोक्त्यानया काव्यान्तरातिशायि तैः स्वरूपमाख्यायते नत्तेऽपि युक्ताभिधायिन एव । इति श्रीराजानकानन्दवर्धनाचायविरचिते ध्वन्यालोके
प्रथमोद्दयोतः ॥