________________
१६
किञ्च
ध्वन्यालोकः
[१-१६,१७,१८,१९
रूढा ये त्रिषयेऽन्यत्र शब्दाः स्वविषयादपि । लावण्यायाः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥१६॥
तेषु चोपचरितशब्दवृत्तिरस्तीति । तथाविधे च विषये क्वचित्सम्भवन्नपि ध्वनिव्यवहारः प्रकारान्तरेण प्रवर्तते । न तथाविधशब्दमुखेन । अपित्र– मुख्यां वृद्धिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ १७॥
तत्र हि चारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणे प्रयोजने कर्तव्ये यदि शब्दस्यामुख्यता तदा तम्य प्रयोगे दुष्टतैव स्यात् । न चैवम् । तस्मात्
वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता ।
व्यञ्जकत्वकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ॥ १८ ॥
तस्मादन्यो ध्वनिरन्या च गुणवृत्तिः ।
अव्याप्तिरप्यस्य लक्षणस्य । न हि ध्वनिप्रभेदो विवक्षितान्यपरवाच्यलक्षणः अन्ये च बहवः प्र कारा भक्त्या व्याप्यन्ते; तस्माद्भक्तिरलक्षणम् ।
कस्यचिद्धनिभेदस्य सा तु स्यादुपलक्षणम् ।
सा पुनर्भक्तिर्व: यमाणप्रभेदमध्यादन्यतमस्य भेदस्य यदि नामोपलक्षणतया सम्भाव्यते यदि च गुणवृत्त्यैव ध्वनिर्लक्ष्यत इत्युच्यते, तदभिधाव्यापारेण तदितरोऽलङ्कारवर्ग : समग्र एव लक्ष्यत इति प्रत्येकमलङ्काराणां लक्षण करणवैयर्थ्यप्रसङ्गः । किं च
लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥ १९ ॥
कृतेऽपि वा पूर्वमेवान्यैर्ध्वनिलक्षणे पक्षसंसिद्धिरेव नः यस्माद्