________________
-
[१-१४
वन्यालोकः सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेक्तुिम् ।।
द्वितीयस्यापि -
शिखरिण व नु नाम कियच्चिरं किममिधानमसाक्कसेत्तपः ।
तरुणि येन तवावरपाटलं दशति विम्बफलं शुकशावकः ।। यदप्युक्तं भक्तिर्ध्वनिरिति तत्प्रतिसमाधीयते -
भक्त्या विभर्ति नैकत्वं रूपभेदादयं ध्वनिः।
अयमुक्तप्रकासे ध्वनिर्भक्त्या बैक त्वं बिभर्ति, भिन्नरूपत्वात् । बच्यव्यतिरिक्तस्यार्थस्य वाच्यवाचकाभ्यां तात्पर्येण प्रकाशनं यत्र व्यङ्गप्राधान्ये स ध्वनिः । उपचारमात्रं तु भक्तिः ।
मा चैतत्स्याद्भक्तिलक्षणं ध्वनेरित्याह – अतिव्यानरयाव्याप्तेर्न चासो लक्ष्यते तया ॥ १४ ॥
नैव भक्त्या ध्वनिलक्ष्यते । कथम् ? अतिव्याप्तेरव्याप्तेश्च । तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽ पि विषये भक्तेः सम्भवात् । यत्र हि व्यञ्जकत्वकृतं महत्सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते । यथा --
परिम्लानं पीनम्तननघनसङ्गादुभयतस्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनेः कृशाङ्गयाः सन्तापं वदति बिसिनीपत्रशयनम् ।।
तथा –
..