________________
१-१३]
( २ ) व्यङ्गयस्य प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा । न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ॥
ध्वन्यालोकः
( ३ ) तत्परावेव शब्दार्थो यत्र व्यङ्गयं प्रति स्थितौ । ध्वनेः ः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥
तस्मान्न ध्वनेरन्यत्रान्तर्भावः ः ।
इतश्च नान्तर्भावः; यतः काव्यविशेषोऽङ्गी ध्वनिरिति कथितः । तस्य पुनरङ्गानि – अलंकारा गुणा वृत्तयश्चेति प्रतिपादयिप्यते । न चावयव एव पृथग्भूतोऽवयवीति प्रसिद्धः । अपृथग्भावे तु तदङ्गत्वं तस्य न तु तत्त्वसेव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव ।
L
१३
सूरिभिः कथित' इति विद्वदुपज्ञेयमुक्तिः, न तु यथाकथञ्चित्प्रवृत्त प्रतिपाद्यते । प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात्सर्वविद्यानाम् । ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति । तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभिर्वाच्यवाचकसम्मिश्रः शब्दात्मा काव्यमिति व्यपदेश्यो व्यञ्जकत्वसाम्याद्धूनिरित्युक्तः । न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदतद्भेदसङ्कलनया महाविषयस्य यत्प्रकाशनं तदप्रसिद्धालङ्कारविशेषमात्रप्रति. पादनेन तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिदीया कलुषितशेमुषीकत्वमाविष्करणीयम् ।
तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः । अस्ति ध्वनिः ।
स चासावविवक्षितवाच्या विवक्षितान्यपरवाच्यश्चेति द्विविधः सामान्येन । तत्रास्योदाहरणम्
-