________________
१०
ध्वन्यालोकः
यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थं व्यक्तः स काव्यविशेषो ध्वनिरिति । अनेन वाच्यवाचकचारूत्वहेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश्च विभक्त एव ध्वनेविषय इति दार्शतम् ।
यदप्युक्तम् – ' प्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यत्वहानवनिनास्ति' इति तदप्ययुक्तम् । यतो लक्षणकृतामेव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम् । ततोऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः ।
यदप्युक्तम् कामनीयकमनतिवर्तमानस्य तस्योक्तालङ्कारादिप्रकारेवन्तभावः इति. तदप्यसमीचीनम; यतो वाच्यवाचकमात्राश्रयिणि प्रस्थाने व्यङ्गयव्यञ्जकसमाश्रयेण व्यवस्थितस्य ध्वनेः कथमन्तर्भावः, वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूताः, न तु तदेकरूपा एवेति प्रतिपादयिष्यमाणत्वात् ।
परिकर श्लोकश्चात्र'व्यङ्गयव्यञ्जकसंबन्धनिबन्धनतया ध्वनेः । वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः ।।'
ननु यत्र प्रतीयमानस्यार्थम्य वैशयेनाप्रतीतिः स नाम मा भूद्धनेविषयः । यत्र तु तत्प्रतीतिरस्ति, यथा समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्ति. पर्यायोक्तापहृतिदीपकसङ्करालङ्कारादौ, तत्र वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम्-' उपसर्जनीकृतस्वार्थों' इति । अर्थो गुणीकृतात्मा. गुणीकृतामिधेयः शब्दो वा यत्रार्थान्तरमभिव्यनक्ति स ध्वनिरिति । तेषु कथं तम्या-तर्भावः । व्यङ्गयप्राधान्ये हि ध्वनिः । न चैतत्समासोक्त्यादिष्वस्ति । समासोक्तौ तावत् -