________________
ध्वन्यालोकः उपोढरागेण विलोलतारकं तथा गृहीतं शमिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।।
इत्यादौ व्यङ्गयेनानुगतं वाच्यमेव प्राधान्येन प्रतीयते, समारोपितनायिकानायकव्यवहारयोनिशाशशिनोरेव वाक्यार्थत्वात् ।।
आक्षेपेड पि व्यङ्ग्यविशेषाक्षपिणो वाच्यम्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते । तथाहि तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेधरूपो य आक्षेपः स एव व्यङ्गयविशेषमाक्षिपन्मुख्यं काव्यशरीरम । चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा । यथा -
अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः । अहो दैवगतिः कीदृक् तथापि न समागमः ॥
अत्र सत्यामपि व्यङ्गयप्रतीतो वाच्यस्यैव चारुत्वमुत्कर्षवदिति तम्यैव प्राधान्यविवक्षा ।
यथा च दीपकापह्नत्यादौ व्यङ्गयत्वेनोपमायाः प्रतीतावपि प्राधान्येनाविवक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यम् । अनुक्तनिमित्तायामपि विशेषोक्तों
आहूतोऽपि सहायैरोमित्युक्त्वा विमुक्तनिद्रोऽपि । गन्तुमना अपि पथिकः सङ्कोचं नैव शिथिलयति ॥
इत्यादी व्यङ्ग्यम्य प्रकरणसामर्थ्यात्प्रतीतिमात्रम् । न तु तत्प्र नीतिनिमित्ता काचिच्चारुत्वनिप्पत्तिरिति न प्राधान्यम् ।
पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु मा म तस्य