________________
१- १०,११,१२,१३ ]
ध्वन्यालोकः
वाच्येऽर्थे यत्नवान् भवति । अनेन प्रतिपादकस्य कवेर्व्यङ्गयमर्थं प्रति
व्यापारो दर्शितः ।
प्रतिपाद्यस्यापि तं दर्शयितुमाह -
यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते । वाच्यार्थ पूर्विका तद्वत् तिपत्तस्य वस्तुनः ॥ १० ॥
यथा हि पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीतिपूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः ।
इदानीं वाच्यार्थ प्रतीतिपूर्वकत्वेऽपि तत्प्रततिर्व्यङ्गयस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति -
-
स्वसामर्थ्यवशेनैव वाक्यार्थं प्रथयन्नपि ।
यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥११॥
यथा स्वसामर्थ्यनैव वाक्यार्थ प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ
न विभाव्यते विभक्ततया
―
तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् ।
बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ||१२||
एवं वाच्यव्यतिरेकिणो व्यङ्गयस्यार्थस्य सद्भावं प्रतिपाद्य प्रकृत उपयोजयन्नाह
-
यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति मूरिभिः कथितः ॥ १३ ॥