________________
५० अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता
ननु सिद्धेऽप्यात्मप्रदेशैः सह कर्मणां संसर्गे क्षीरनीरवदनितप्तायोगोलकवद्वाविभागेन स न युक्तः, अन्यथा मोक्षाभावप्रसङ्गः, जीवप्रदेशैः सह कर्मणामविभागेनावस्थानात् । तथा चानुमानम्-जीवात् कर्म नापति क्षीरनीरवदग्नितप्तायस्पिण्डवदात्मप्रदेशैः सहाविभागेनावस्थानात् जीवप्रदेशसमूहवत्, यद्येन सहाविभागेन व्यवस्थितं तत्तेन सह न विमुच्यते, यथात्मनः स्वप्रदेशसमूहः, इष्यते च जीवकर्मणोरविभागो भवद्भिः । तत एव जीवात् कर्म सर्वदापि नापति, कर्मापगमाभावे चानिशं जीवानां सकर्मकत्वे मोक्षाभावः । ननु तर्यात्मप्रदेशैः सह कर्मणां कमिव संसर्ग इति चेत् ? सर्पकचकवदिति ब्रूमः, यथा-कञ्चको विषधरमनुगच्छति, तथापि कालान्तरेण कञ्चकं विषधरो मुञ्चति, एवं कर्मापि जीवमनुः गच्छति स्थितिपरिपाकेन तु मुच्यत इति न मोक्षाभाव इति चेत् ? अत्रोच्यते, काञ्चनोपलयोरविभागेन स्थितयोरपि वियोगो दृष्टः तद्वत्कर्मणोऽपि जीवेन सहाविभागेन स्थितस्य ज्ञानक्रियाभ्यां वियोगो भवति, यथा मिथ्यात्वादिवन्धहेतु. भिरविभागेन संयोगो भवति तद्वद्वियोगोऽपि भवतीत्यर्थः। इदमत्र हृदयम्-जीवस्याविभागेनावस्थानं द्विधा भवति, कर्मणा सहाकाशेन च । यदाकाशेन सहावस्थानं तन वियुज्यते, सर्वाद्धामवस्थानात् । कर्मणा सहाविभागावस्थानं तदप्यभव्यानां न वियुज्यते, भव्यानां तु तथाविधज्ञानदर्शनचारित्रतपःसामग्रीसद्धावे कर्मसंयोगो वियुज्यते, वयोषध्यादिसामग्रीसत्त्वे काश्चनोपलयोः संयोगवदिति । तथाविधसामग्र्य