________________
कर्मसिद्धिः।
तथा चोक्तं“यस्मिन् सति भवत्येव, यत्तत्ततोऽन्यकल्पने ।
तद्धेतुत्वं च सर्वत्र, हेतूनामनवस्थितिः॥१॥ इति । ननु शरीरानुग्रहादिनिमित्तत्वाभावेऽपि प्रशान्तमनोयोगादिभावतोऽपि सुखादयो दृष्टा इति चेत् ? न, प्रशान्तचित्तादिभावतः सुखादीनां भावनावश्यं शरीरस्यानुग्रहादिभावात् । ननु मनोयोगे सति कथं तनुयोगस्यानुग्रहादयः, विभिन्नद्रव्यत्वादिति चेत् ? सत्यम् , काययोगेनैव मनोयोगपुद्गलानां गृहीतत्वेन काययोगविशेष एव मनोयोगः स एव प्रशान्तचित्तादिः, ततो न दोष इति दृष्टविरोधः। तथेष्टविरोधोऽपि, तथाहिशरीरस्य पूजनव्यापत्ती आत्मनः सुखदुःखनिमित्ते इष्टे, आत्मशरीरयोरत्यन्तभेदे चेष्यमाणे न च ते युक्ते, न चेष्टापतिः कर्तु शक्यते, तथा दर्शनात् । ननु शरीरस्य पूजनव्यापत्ती नात्मनः सुखदुःखनिमित्ते भवतः, प्रतिमाप्रतिपन्नस्य देहव्यापत्तावपि ध्यानवलेनैकान्तसुखोपेतत्वात्, चन्दनादिसनिधानेऽपि कामातस्य कामोद्रेकवशतः दुःखदर्शनादिति चेत् १ न, अनध्यात्मिकसुखस्यैव साधयितुमिष्टत्वात् , प्रतिमाप्रतिपन्नस्य कामावेशवतश्चाध्यात्मिकसुखादेरनुभवसिद्धत्वेऽपि पूजनव्यापत्तिनिमित्तत्वस्य प्रतिषेधुमशक्यत्वादितीष्टविरोधः । तदेवमात्मशरीरयो। संसर्गाभावे दृष्टेष्टविरोधदर्शनादवश्यं तयोः संसर्गः एष्टव्यः, "तथैव कर्मण्यपि, विशेषाभावादिति । तदेवमुक्तः आत्मकर्मणोः संसर्गः। १ बाह्यसुखस्यैव । २ मानसिकसुखादेः।
-