________________
कर्मसिद्धिः।
२५
न, खभाववादप्रवेशेन नियतिवादस्य परित्यागप्रसङ्गात् , अथ परिपाक एव खभावो न हेत्वन्तरमिति चेत् न, परिपाकेपि हेत्वन्तरस्यावश्यमाश्रयणीयत्वात् , नन्वाम्रादौ परिपाकद्वैविध्यदर्शनेऽपि नियतिपरिपाकः स्वभावत एवेति चेत् ? तर्हि 'घटकुट्टयां प्रभात' इति न्यायापत्तिः स्यात् । अथ चोत्तरपरिपाके पूर्वपरिपाकः एव हेतुः, आद्यपरिपाके चान्तिमापरिपाक एवेत्यादिरीत्या विशिष्यैव कार्यकारणभावात् नायं दोष इति चेत् न, एकत्र घटनियतिपरिपाके तदैवान्यत्रापि घटोत्पत्तिप्रसङ्गात् , प्रतिसन्तानं नियति भेदाभ्युपगमे च द्रव्यपर्याययोनामान्तरमेव नियतिपरिपाको ।
तथाचोक्तम्"तस्या एव तथाभूतः, खभावो यदि चेष्यते। त्यक्तो नियतिवादः स्यात्, खभावाश्रयणान्ननु।।" इति।
एतेन-'जगति ये केचन भावा भवन्ति ते नियतिजा एव' इत्यादिकं नियतिवादिना प्रोक्तमपास्तं द्रष्टव्यम् । यदुक्तं'स्वभावस्य सत्त्वेऽपि मधुमासादावेव केचिदाम्रा अतिफलभारेण नम्रीभूता भवन्ति, केचित्तु वन्ध्या इत्यादितो नियति विमुच्य नान्यत् किमपि बीजं विश्ववैचित्र्ये पश्याम' इतिपर्यन्तम् । तत्रापि वन्ध्याने तदन्येषां जीवानां तादृगदृष्टाभावेन तेषामनुत्पादः एव प्रयोजको मञ्जर्या व्याप्तस्याप्याग्रस्य स्तोकान्येव फलानि परिपकानि भवन्ति, न सर्वाणि, तत्रायुष्कमक्षयस्तेषां जीवानां कारणम् । कोकिलरक्षणे तु कोकिल. स्यैव दीर्घजीवनं हेतुः । ब्रह्मदत्तस्यान्धत्वे तु चक्षुर्दशेनावरणस्य तीब्रोदयत्वं कारणम् , द्विजगोपालौ तु तब्यञ्जकाविति