SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २६ अनुयोगाचार्यश्रीमत्प्रेम विजयगणिगुम्फिता नियतेः निराकृतत्वेन यत् सजातीयविजातीयव्यावृत्तखभावानुगतेनैव रूपेण प्रादुर्भावत्वं नियतिकृतप्रतिनियतधर्मोप श्लेषत्वं वा हेतुत्वेनोपन्यस्तं तत् तीक्ष्णशस्त्रोपहतानां जीवनमरणाभ्यां व्यभिचारी, अस्माकं त्वायुःकर्मणो न्यूनाधिकत्वं तयोः कारणम्, नान्यत् किमपीति । तदेवं दण्डादिदृष्टकारणेषु सत्स्वषि घटोत्पदेऽनुत्पादे च भोक्तुरदृष्टं कारणं, दण्डादिदृष्टकारणं तु तद्व्यञ्जकमिति । तदुक्तं मलयगिरिपादैः धर्मसंग्रहणीवृत्तौ - " घटादीनामपि तदुपभोक्तृदेवदत्तादिकर्मपरिपाकसामर्थ्यादेव तैलाद्युपभोगसंभवात् समानमृदाद्युपादानानां समानकुम्भकारादिकर्तृकाणां समानस्थानस्थितानां समानतैलाद्याघे - यानां समानविनाशहेतूपनिपातानामपि केषाञ्चिदेव भङ्गभाचात् । यदि पुनरुपभोक्तृदेवदत्तादिकर्म परिपाकसामर्थ्यात् घटादीनां न तथा तैलाद्युपभोग इष्यते तर्हि सर्वेषां युगपद् विनाशो भवेत्, न केषाञ्चिदेव तद्धि बन्धककारणान्तराभावात् । तस्मात् घटादीनामपि उपभोक्तृदेवदत्तादिकर्म विपाकसामर्थ्य समुद्भवो विचित्रतैलाद्युपभोगः" इति । एवं मुद्गपक्तौ गजभुक्तकपित्थे नालिकेराम्भसि चादृष्टमेव कारणं, तदुक्तं प्रागपि - " न च तत्कर्मवैधुर्य, मुद्गपक्तिरपीक्ष्यते । स्थाल्यादि भङ्गभावेन, यत्कचिन्नोपलभ्यते । १।” इति । 'तत्कर्म वैधुर्ये' इति, उपभोक्तृकर्मवैधुर्ये इति मलयगिरिपादाः । दृष्टकारणानां तु सर्वत्रादृष्टव्यञ्जकत्वं बोध्यम् । एवं सुखदुःखादिकं प्रत्यदृष्टस्य जनकत्वं वाच्यम् । केवलानां पुरु ,
SR No.023098
Book TitleKarmasiddhi
Original Sutra AuthorN/A
AuthorPremvijay Gani
PublisherManchubhai Jivanchandra Zaveri
Publication Year1929
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy