________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः संबध्यते इति । तदीयमेव कार्य यबादिलक्षणं भाविनि समासे स्यात् । तत्र च यपि कृते तकारागमोऽपि तत्कार्यत्वात् पूर्वमेव प्रवर्तते । तत एत्वमिति न दोषः । "ह्रस्वारुषोर्मोऽन्तः'' (४।१।२२) इत्यत एवान्तरणं स्मरिष्यति । यथा “वा कृति रात्रेः" (४।१।२८) इत्याह-अन्तेति ।।८८५।
[का च०]
धातोः । तकार एवात्र विधेयो न स्वरसहितः सर्वत्रागमस्यैकवर्णत्वदर्शनात् । "ह्रस्वारुषोर्मोऽन्तः'' (४।१।२२) इत्यनेन 'उपेत्य' इत्यादयः सिद्धा इति वररुचिः। स्वमतेऽत्र युक्तिर्वक्ष्यते । अत्रान्तग्रहणं सुखार्थम्। अथ पकारः स्थितिमान् नास्तीति। अर्थात् पानुबन्धो गम्यते किमनुबन्धग्रहणेन ? सत्यम् , 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (व्या० परि० ४६) इति व्यभिचारार्थम्, तेन क्विबादिषु व्यनुबन्धकेष्वपि अग्निचिदित्यादयः सिद्धाः । अथ तथापि न क्रियताम् , पीति सामान्यनिर्देशात् सामान्येनैव पानुबन्धग्रहणं भविष्यति, क्विबादीनां पकारवैयर्थ्यात् ? सत्यम् , तदा सुखार्थमनुबन्धग्रहणम्। अथ धातुग्रहणं किमर्थम्, पानुबन्धप्रत्ययो धातुरेव सम्भवति, अर्थाद् धातुरेवानुमीयते? सत्यम्, उपपदप्रस्तावात् पानुबन्धप्रत्ययान्ते धातौ परे उपपदस्य तकारोऽन्त इति सूत्रार्थे ग्रामणीत्यत्र क्विबन्ते धातौ ग्रामशब्दस्योपपदस्य तोऽन्तः स्यात्। न च वक्तव्यम् अर्थायातेन धातुना इष्टनिर्वाहः, उपपदस्य प्रस्तुतत्वेनान्यार्थबाधस्य सम्भवाद् इत्याह - धातोरिति किमिति । सेनानीत्यादि। नपुंसकलक्षणह्रस्वत्वे लिङ्गान्तलक्षणलोपे च कृते ह्रस्वान्तधातुरिति तकारागम: स्याद् इत्याशङ्कार्थः ।
ननु कथमत्र धातुत्वं स्याद् एरुत्पन्नत्वात् , न च धातो: स्याद्युत्पत्ति: ? सत्यम्, "आधातोरघुट्स्वरे" (२।२।५५) इति ज्ञापकात् क्विबन्तो धातुत्वं न जहाति, जहाति वा भूतपूर्वस्तदुपचारः पर्यवसितार्थ इति कुलचन्द्रः। तथा च धातुसूत्रे लिङ्गाख्या धातुभिन्ना धातव इति टीकाकृतो वचनम् । क्विबन्ता इत्यत्रान्तपदं धातुत्वं प्रति समीपार्थम् अवयवार्थ च । तदयमर्थः क्विप्समीपभूतानां प्रकृतयो धातुत्वं न जहति, क्विबवयवास्तु धातुत्वं जहति । तेषां कर्तृवाचकत्वेन धातुत्वासम्भवात्। इत्थं धातुत्वे सति लुप्तस्य क्विप: प्रत्ययलोपपलक्षणमिति परत्वावस्थितौ पूर्वपक्षः संगच्छते ।
पञ्जिका-पदान्तरेति । अयमाशयः-सेनानीयवलूशब्दौ शब्दान्तरनिरपेक्षौ पुंस्येव वर्तेते, स्त्रीनपुंसकयोस्तु शब्दान्तरसन्निधानादेव । अत: शब्दान्तरापेक्षया स्यादेवेति।
'पूर्वं निपातोपपदोपसर्गः सम्बन्धमासादयतीह धातुः । पश्चात्तु कादिभिरेव कारकैर्वदन्ति केचित्त्वपरे विपश्चितः ।।
इति मतं दूषयन्नाह - यदीति । क्वचिद् धातोरुपसर्गेण प्राक् सम्बन्धपक्ष एव सिद्धान्तो भवति । अन्यथा आत्मनेपदविषये परस्मैपदमेव स्यात् ? सत्यम्। वचनबलादेव १. धातुः सम्बन्धमायाति पूर्वं कादिकारकैः।
उपसर्गादिभिः पश्चादिति कैश्चिनिगद्यते।। (वं भा०)।