________________
६०
कातन्त्रव्याकरणम् किम्? उपपदस्य मा भूत् - ग्रामणी:, सेनानि कुलम्। वृत्रहभ्यामिति। 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इति । ह्रस्वान्तस्येति किम् ? आनीय, आपूय। कथम् उपेत्य? साधनायत्तत्वात् क्रियायाः प्रत्ययकार्यमेव। अन्तग्रहणं सुखार्थम् ।।८८५।
[दु० टी०]
धातोः । एकविभक्तियुक्तानां क्वचिदेकदेशोऽप्यनुवर्तते इत्याह-ह्रस्वेत्यादि । इत्वर इति "सृजीण्नशां क्वरप्' (४।४।४८) । धातोरित्यादि । पानुबन्धान्ते धातौ प्रस्तुतस्योपपदस्य ह्रस्वान्तस्य मा भूदित्यर्थः, सेनानीत्यादि । पदान्तरापेक्षो नपुंसके ह्रस्वो बहिरङ्गस्तथा लिङ्गान्तनकारस्य व्यञ्जनादौ लोप इति "धातोस्तोऽन्तः पानुबन्धे' (४।१।३०) अन्तरङ्गः । तथा ग्रामणीपत्र इत्यत्रास्त्रीकृतस्यापि ह्रस्व उत्तरपदापेक्ष: । कथमित्यादि । 'पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण' (सीर० परि० १२८) इति न्यायः पक्ष इत्युक्त एव । तस्माद् भाविनि समासे यबादेशे सति तोऽन्त: पश्चादुपसर्गस्य "अवर्ण इवणे ए" (१।२।२) भक्तीत्यर्थः। उपसर्गस्तु दूरीकृत्य धातो: पश्चात् साधनेन योगः इति कार्यसिद्ध्यर्थमभ्युपगम्यते। अथवा अस्मिन्नपि पक्षे 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इत्यभ्युपगम्यते । ननु यथा “वा कृति रात्रेः" (४।१।२८) इत्यत्रान्तग्रहणं स्मृतम् , तथेहापि स्मर्यते, नैवम् । उपपदव्यवच्छेदतो धातोरादेशोऽपि सम्भाव्यते इत्याह - इहान्तेत्यादि । तत्र रात्रिशब्दस्योपोच्चारिपदत्वादुपपदत्वमस्ति। अन्य आह - भूतपूर्वह्रस्वार्थमपि प्रयोजयतीति ।।८८५।
[वि० प०]
धातो: । "चेरग्नौ, सोमे सुञः" (४।३।८६, ८५) इति क्विप् । प्रकृत्येति। क्त्वो यप् । इत्वर इति । "सृजीण्नशां क्वरप्' (४।४।४८) । सेनानीत्यादि । तकारागमः प्रकृतिभक्तत्वादन्तरङ्गः । स्वरो ह्रस्वश्च पदान्तरापेक्षया नपुंसके भवन् बहिरङ्गः । तथा लिङ्गान्तनकारस्य लोपोऽपि । अतस्तकारागमे कर्तव्ये ह्रस्वो नलोपश्चासिद्ध एवेति भावः । कथमिति । उपपूर्व इण् क्त्वेति स्थिते वार्णो विधिरन्तरङ्ग इति "अवर्ण इवणे ए'' (१।२।२) । एत्वमन्तरङ्गं यबादेशश्च बहिरङ्गः, समासाश्रयत्वात् । अत: 'अन्तरङ्गबहिरङ्गयोरन्तरङ्गविधिर्बलवान्' इति पूर्वमेत्वे ह्रस्वाभावात् कथन्तकारागम इति पूर्वपक्षार्थः ।
साधनेत्यादि। परिहारस्यायमर्थः स्यादेव प्रागेत्वं यदि धातोः पूर्वम् उपसर्गेण सम्बन्ध: स्यात् । केवलं स एव न विद्यते कथम् ? उच्यते - क्रियाभावो हि धातुः, क्रिया च साध्यरूपा । यच्च साध्यं तच्च साधनायतं भवतीति । अत: क्रियाभिधायी धातुः पूर्वं साधनेनैव सम्बध्यते पश्चादुपसर्गेण । यस्माद् उपसर्गा हि विशेषका भवन्तीति । ते च साधनतो लब्धात्मभावां क्रियां विशेष्टमर्हन्ति, नान्यथा । न हि स्वयमनिष्पन्नस्य विशेषाकाक्षा भवतीति । पश्चादुपसर्गेण सम्बन्धः । साधनेन सम्बध्यमानो धातुस्तदभिधायिना प्रत्ययेन