________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः केवलस्य चेत्याह-उपसर्गादेवेत्यादि । खल्घओरेवेति लभेरेव । न च विपरीतनियम: "प्रलम्भने गृधिवच्योः " (३।२।४२-६६) इति "प्रोपाभ्यामारम्भे'' (३।२।४२-३७) इति रुचादौ पाठात् 'बिद्ल लाभे' (५।९) इति निर्देशाच्च । असुदुर्व्यामित्यादि घजि प्रत्युदाहर्तव्यम् । 'सुलाभ:' इति सुशब्दोऽत्राधिकार्थो न त्वकृच्छ्रार्थः । यथा सुषिक्तं भवता किन्तवात्रेति । दुर्लाभः । दुरत्र निन्दार्थो न कृच्छ्रार्थः । यथा दुष्पुरुषो दुर्ब्राह्मण इति । केवलाभ्यामेवेष्यते इति सुदुर्थ्यां सह सन्निपातेनोपसर्गः सुदुर्ध्या पूर्वं प्रयुज्यते परो वा । तत्र प्रस्लम्भः इति नैव प्रयोगोऽभिधीयते प्रारम्भविशिष्टाया: क्रियायाः सौकर्य दौष्कर्यं वा वक्तव्यम् ।
अत्रार्थप्रतिपत्त्यनुसारेण पूर्वं प्रेण सम्बन्धः, पश्चात् सुदुर्ध्याम् , एवं क्रमः । इदन्तर्हि सुप्रलम्भ इति ‘असुदुाम् ' इति पञ्चमी । प्रेण व्यवहितत्वान्न प्रतिषेध इत्याह - अतिसूलम्भ इति । अथ स्वभावात् तत्र सौकर्यविशिष्टस्य पूजाभिसम्बन्ध: । पूजायां चान्य एवार्थः प्रक्रान्त: । ननु भोः परवादिन् ! तव कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाबाधया प्राप्त्यभावादतिसूलभ इति भवितव्यम् । यदा तर्हि नातिक्रमणं न पूजा सुदुरोरप्युपसर्गत्वे प्राप्तिरिति । केवलाभ्यामेवेति वक्तव्यम्, भाष्यकारमतमेतत् । वाक्यकारस्तु नैनं प्रयोगमाद्रियते। अर्थविशेषाभावाद् यदाप्यतिरुपसर्गः सुशब्दः कर्मप्रवचनीयस्तदा निमित्ताभावादसत्यां प्राप्तौ अतिसुलभः इति भवितव्यम् । यदाऽप्यतिशब्द: कर्मप्रवचनीयसंज्ञकसुशब्द: उपसर्गसंज्ञकस्तदा नानुपसर्गे उपसर्गस्य केवलत्वं जातिभेदाद् विहन्तीति केवल एवायं प्रतिषेधे सति अतिसुलभ इति भवितव्यम् ।
वाक्यकारः पठति - सुदुरोः प्रतिषेधोऽल्विधिषत्वणत्वेषु तस्याविशेषेण सुदुरोरुपसर्गसंज्ञाप्रतिषेधात् पूजायां च नमा भवितव्यम् । भाष्यकारस्तु पूजाया अन्यत्र नुमं प्रतिजानीते । वाक्यकारमतमेव सूत्रकारस्य मतं लक्ष्यते । असुदुर्व्यामिति नेयं तृतीया । केवलाभ्यामेवेति वक्तव्यम्, इदं तु न देशनीयम् , कथं सुदुर्लभः । न चात्र केवल: सुशब्दो नापि दुःशब्दः । अथासमुदितयोः कैवल्यमाश्रीयते प्रत्येकं प्रयोगे प्रतिषेधो न स्यात् – सुलभो दुर्लभ इति । एवन्तर्हि अन्यस्य निवृत्त्यर्थे केवलग्रहणे समुदितयोः प्रत्येकं च प्रतिषेधनिवृत्त्यर्थम् । यथा देवदत्तयज्ञदत्ताभ्यामिह केवलाभ्यां न प्रवेष्टव्यमिति । अन्यं विष्णुमित्रादिमन्तरेण प्रत्येकं समुदितौ च न प्रतिषेध्याविति ।।८८०।
[वि० प०]
उप० । अथ किमर्थमिदं "रभिलभोरविकरणपरोक्षयोः" (३।५।३४) इत्यनेन नकारागमेऽपि विशेषाभावात् सिद्धमेवेत्याह - उपसर्गादेवेति । तेनान्यपूर्वस्य केवलस्य लभेर्न भवतीति । खल्घञोरेवेति न विपरीतनियमः । "प्रलम्भने गृधिवञ्च्योः" (३।२।४२-६३) इति रुचादिगणे युट्प्रत्ययेऽपि दर्शनात् । नापि लभेरेवेति नियम: "प्रोपाभ्यामारम्भे'' (३।२।४२-३७) इति रभेरपि दर्शनात् 'विद्ल लाभे' (५।९) इति नागमस्यादर्शनाच्चेति ।।८८०।