SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ५४ कातन्त्रव्याकरणम् [क० च०] उपसर्गात् । अथ प्राग्ग्रहणं किमर्थम् , भादिति पूर्वदिग्योगलक्षणा पञ्चमी, न परदिग्योगलक्षणा भाद्ग्रहणबलात् । अन्यथा भाद्ग्रहणमनर्थकम् ? सत्यं सुखार्थम्। प्रागिति स्थिते भाद्ग्रहणमपि तथैव । अथ भाद्ग्रहणाभावे धातोः प्राक् कथं न स्यात्। नैवम् , खल्घञोर्निमित्तयोर्व्यवधानाद् वचनादेकवर्णव्यवधानमाश्रीयते, न त्वनेकेनेति। लभे दिति कृते उभयमपि सुखार्थम्। अथास्य वचनस्याभावे ‘सुलभः, दुर्लभः' इत्यत्र रभिलभोरविकरणपरोक्षयोरिति नकारागमः कथं न स्यात् ? सत्यम् , यद्येतदर्थमेव वचनं तदा 'पुरन्दरः' इत्यनन्तरं न सुदुर्थ्यां लभेः प्राग् भात् खल्घोरिति कुर्यात् । अर्थाद् रभिलभोरित्यनेन प्राप्तस्य नस्य निषेधः । केवलाभ्यामिति तर्हि कथं सुदुर्लभ इति सुशब्देन सह सम्बन्धाद् दुःशब्देन केवलः, अथ समुदितयोः केवलत्वमाश्रीयते, न तु प्रत्येकेन समुदायेन च । यथा देवदत्तयज्ञदत्ताभ्यां केवलाभ्यामिह न प्रवेष्टव्यम् इत्युक्ते विष्णमित्रादिमन्तरेण प्रत्येकेन समदायेन च प्रविश्यते इति, तद्वदत्रापि । पश्चादतिनेति। अथार्थभेदोऽतिशब्दस्य प्राक्सम्बन्धे धातोरर्थस्यातिशयत्वं प्रतीयते । पश्चात् संबन्धे तु द्रव्यस्यातिशयत्वमिति भेदः? सत्यम् , यदा ‘अतिसुलभः' इति भावे खल् । तदैवमुक्तं यदा कर्मणि खल् तदोपसर्गस्य प्रतिरूपकोऽयमिति सिद्धान्त ऊह्यः। यद् वा ह्रस्वारुषोर्मुट् इति कृतेऽत्रागमे उदनुबन्ध इत्यनेन पूर्वमेव भविष्यति । 'विद्ल लाभे' (५।९) इति पञ्जिका उपसर्गाल्लभेरेवेति नियमाद् व्यावृत्तिरपि उपसर्गादेव, केवलस्य तु रभिलभोरित्यनेन नकारः केन निवार्यते इति भावः ।।८८०। [समीक्षा 'ईषत्प्रलम्भः, सुप्रलम्भः, दुष्प्रलम्भः' इत्यादि शब्दरूपों के सिद्धयर्थ 'लभ' धातु में भकार से पूर्व अपेक्षित मकार का विधान दोनों व्याकरणों में किया गया है। पाणिनि नुमागम, अनुस्वार तथा परसवर्ण करते हैं, परन्तु कातन्त्रकार ने मकारागम किया है । पाणिनि के सूत्र हैं – “उपसर्गात् खल्घञोः, न सुदुर्ध्या केवलाभ्याम्'' (अ० ७।१।६७, ६८) । कातन्त्रकार ने मकारागम-एकसूत्रविधान से अर्थावबोध में सरलता दिखाई है, जबकि नुमागम-द्विसूत्रविधान से पाणिनि की प्रक्रिया में दुरूहता प्रतीत होती है । [विशेष वचन] १. नकारागमे मकारागमे च रूपाभेदात् (दु० टी०) । २. केवलाभ्यामेवेति वक्तव्यम्, भाष्यकारमतमेतत् (दु० टी०) । ३. वाक्यकारस्तु नैनं प्रयोगमाद्रियते (दु० टी०) । ४. भाष्यकारस्तु पूजाया अन्यत्र नुमं प्रतिजानीते । वाक्यकारमतमेव सूत्रकारस्य मतं लक्ष्यते (दु० टी०) ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy