________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
४७ यद् वा इति इत्यस्य करणम् उपादानं हेतो निमित्तसप्तमी । परत्वादिति व्यस्तेनान्वयः। तथा च 'न तु ह्रस्वत्वमिति शब्दान्तरस्य विधिः नित्यो भवितुमर्हति' (व्या० परि० ७७) इत्याह-परत्वादिति। ननु कथमेतद् यावताऽन्तरङ्गत्वाद् तथाप्यमि सति निमित्ताभावानिवर्तते, एतच्चावश्यं कर्तव्यं कथमन्यथा 'श्रियम्मन्यः' इत्यत्र इयादेश: प्राग् ह्रस्वत्वे सति भविष्यति इत्याह-कथमन्यथेति । निमित्ताभावेनेत्यर्थः । तर्हि 'अनात्' इत्यास्ताम् , किं व्यापकवचनेनेत्याह - किञ्चेति । अथ स्थितौ दीर्घस्येति नानुवर्तते, अनात इत्यकरणादिति वाच्यम् । इदानीं वत्करणे तस्यानुवृत्तौ कुतः 'श्रियम्मन्यः' इत्यत्र प्रसङ्गः? सत्यम् । इदानीं कार्यि निमित्तं कार्यम् इत्यस्य व्यतिक्रमबलादिति सिद्धान्तो दास्यते, अतोऽदोष: । कश्चिद् आह - तदा प्रत्ययग्रहणमनर्थकम् अन्वच्चेति क्रियताम्। न च वाच्यम् अन्वच्चेति कृते अम्शब्दोच्चारितकार्यस्य प्राप्तिर्दीर्घानुवर्तनात् ‘गाम्मन्यः' इत्यस्य सूत्रस्योदाहरणमेव न सिध्यति । यस्मात् प्रत्ययग्रहणादेव दीर्घानुवृत्तिर्न भविष्यति । ननु 'नदिम्मन्यः' इत्यादौ दीर्घानुवृत्तिरपि अम्शसौ इत्यमशब्दोच्चारितस्य सम्भवाद् एकश्चासौ स्वरश्चेति कर्मधारयो विधीयते । तदन्तविशेषणं करिष्यति एकः स्वरोऽन्तभूतो यस्य व्यञ्जनान्तस्य प्रसङ्गः ? सत्यं सुखार्थम् ।।८७६।
[समीक्षा]
'गाम्मन्यः, नावम्मन्य:, नरम्मन्यः' इत्यादि शब्दरूपों के सिद्ध्यर्थ शब्द के अन्त में अपेक्षित अमागम का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - "इच एकाचोऽम्प्रत्ययवच्च" (अ० ६।३।६८) । पाणिनीय ‘इच्' प्रत्याहार में आने वाले वर्गों की कातन्त्रकार ने 'नामी' संज्ञा की है । अत: प्रायः उभयत्र समानता है।
[विशेष वचन] १. यथा लोके धनुश्चक्रं चानयेति धनुःसान्निध्यात् प्रहरणे चक्रे प्रत्ययः ___ (दु० टी०)। २. सान्निध्यं पुनरिह सादृश्यमेव, तच्च रूपम् (वि० प०) । ३. वाररुचा:-नामिन इति षष्ठीनिर्देशात् प्रत्ययवद्भावेन चादेशाभावाद् आगम
एवानुपघातात् (वि० प०) । ४. जलवाचिनो गोशब्दस्य बहुवचनत्वात् । अथैकवचनान्तो जलवाची
गोशब्दोऽपि दृश्यते (क० च०)। ५. तथा च क्षीरस्वामी गोत्रशब्दस्य व्युत्पादनेऽप्याह - गोर्जलात् त्रायते इति ____ गोत्रम् (क० च०)। ६. सत्यं सुखार्थम् (क० च०) । [रूपसिद्धि]
१. नावम्मन्यः। नौ + मन् + खश् + सि । 'नौ' शब्द के उपपद में रहने पर 'मन ज्ञाने' (३।११३) धातु से खश् प्रत्यय, यन् - विकरण, प्रकृत सूत्र से 'नौ' के बाद अमागम-प्रत्ययवद्भाव, आव् - आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य ।