________________
४६
कातन्त्रव्याकरणम्
वाच्यम् । तस्य विशेषत्वेऽप्यन्वयस्य घटनाद् दीर्घस्य नामिन इति ? सत्यम् , तदा नामिग्रहणमपनीय अनात इति क्रियताम् , कार्यिनिमित्तादीनां व्यतिक्रमनिर्देशाच्च । अत एव वृत्तौ ‘गाम्मन्यः' इति दर्शितम् । अत्र' वाररुचा:- नामिन इति षष्ठीनिर्देशात् प्रत्ययवद्भावेन च आदेशाभावादागम एवानुपघातात् । तेनायमर्थः-नामिनोऽमागमो भवति, स च प्रत्ययवदिति। तेन ‘श्रियम्मन्यः' इत्यादौ न ह्रस्वः पूर्वेण दीर्घान्तत्वाभावादागमे हि मान्त एवायं श्रीशब्द: इत्याहुः । तन्न, ह्रस्वत्वं बाधित्वा अमि कृते सकृद्गतन्यायेन पुनस्तस्य प्राप्तेरभावात्, प्रत्ययकार्येण परत्वाद् ह्रस्वबाधनाच्च । अत एव नामिन: पर इति पञ्चम्येव दर्शितम् ।।
___ ननु श्रियम्मन्य इत्यादावन्तरङ्गत्वात् पूर्वेण ह्रस्व एव प्राक् प्राप्नोतीति । न चास्यापि बाधकत्वादपवादत्वमिति वाच्यम् , पूर्वस्य दीर्घमात्रविषयत्वात् ? सत्यम् । अमि कृते खानुबन्धस्य व्यवहितत्वानिमित्ताभावेन कृतस्यापि ह्रस्वस्य निवृत्तिः । यद् वा एकस्वरनामिन इति सिद्धे एकपदे भिन्नविभक्तिनिर्देशो व्यक्त्यर्थः। तेन व्यक्तिः सर्वस्य बाधिकेति न्यायादादौ प्रवर्ततेऽमिति । अथ वचनमिदं किमर्थम् ‘श्रियम्मन्यः' इत्यादौ अलुक्समास एव क्रियताम् । अथ श्रियमात्मानं मन्यते इति बहुवचनेऽपि 'श्रियम्मन्यः' इत्येव भवति भवन्मते कथम् ? सत्यम् , समासावयवविभक्तेः संख्याप्रतिपादकत्वाभावाद् एकवचनमेव भविष्यति चेद् ‘गाम्मन्यः' इति न सिध्यति, जलवाचिनो गोशब्दस्य बहुवचनत्वात् । अथ एकवचनान्तो जलवाची गोशब्दोऽपि दृश्यते। तथा चोक्तं वृन्दावनयमके -
स्वमिव भुजङ्गविशेषं व्युपधाय यः स्वपिति भुजङ्गविशेषम्। नवपल्लवसमकरया श्रियोर्मिपङ्क्त्या च सेवितः समकरया।।
अस्यार्थः- गवि जले य: स्वपिति शेते तस्मै नमः, किं कृत्वा स्वपिति? शेषं शेषाख्यं भुजङ्गविशेषं व्युपधाय उपधानं कृत्वा गेण्डुकं कृत्वा इत्यर्थः। कमिव स्वभुजमिव। किम्भूतः सन् शेते इत्याह - नवपल्लवेति । श्रिया सेवित:, किम्भूतया श्रिया? नवपल्लवसमौ करौ यस्यास्तया, ऊर्मिपङ्क्त्या च सेवित:, किम्भूतया? मकरैर्जन्तुविशेषैः सह वर्तते तयेत्यर्थः । तथा च क्षीरस्वामी गोत्रशब्दस्य व्युत्पादनेऽप्याह-गोर्जलात् त्रायते इति गोत्र, तेनैव सिद्धं गाम्मन्यः इति ? सत्यम् , द्वितीयास्थितिरेव नास्ति "कर्तृकर्मणोः कृति नित्यम्" (२।४।४१) इति षष्ठीविषयत्वात् । पञ्जिकानिदर्शनं दृष्टान्तोऽत्र किमिव किसलयमिवेति दन्त्यसकारवानयमिति 'किसलयैः सलयैः' इति रघुयमकात् । करणमिति । क्रियते उच्चार्यते यत् तत् करणं शब्द इत्यर्थः । करोतिरिहोच्चारणे वर्तते चौरङ्कारमाक्रोशतीत्यादिवत् । १. ननु श्रियम्मन्यः इत्यादौ पूर्वेण ह्रस्व: कथं न स्यादित्याह-अत्रेति। २. नन्वस्य परत्वाद् अन्तरङ्गत्वात् प्राग् ह्रस्व: स्यादिति मनसिकृत्याह-नन्वित्यादि । ३. अलुक्समासवादिनो मते ।