________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
४५ प्रत्य:। गं चक्रं चानयेति रथाङ्गे। अन्यस्तु विलपति-अमिति द्विरावर्तनीयम् प्रत्ययवादेत्यप्मिन् शब्देऽनन्तरस्यानुवर्तनार्थम्। अपर आह-न च प्रत्ययसामान्यकार्यमस्ति प्रत्ययः पर इति चेद् , न। वद्ग्रहणं किमर्थं प्रत्ययग्रहणादेव नादेश इति तस्माद् वि. पावगम इति खानुबन्धे लिङ्गस्योपपदस्यासम्भवाद् शस्तन्यद्यतन्योरमोऽतिदेशो न युज्यते, धातुष्वडादिविधानात्। यद्येवम् - अम्वच्चेत्यास्तां सामर्थ्याद द्वितीयेकवचनवदिति? सत्यम्, अम्शब्दोच्चारितमेव कार्य प्रतिपद्येत “अम्शसोरा' (२।२।३४) इत्यादिकं न त्वरादेशेऽयुवादिकं पाठक्लिष्टिश्च स्यात् । अथेह कथं भवितव्यम् ‘श्रियम्मन्यते ब्राह्मणस्य कुलम्' इति श्रियम्मन्यमिति उपात्तलिङ्गत्वात् । श्रीशब्द: कुलसमानाधिकरणोऽपि स्वलिङ्ग एव प्रवर्तते । यथा भूतशब्दो नपुंसकलिङ्गे एव प्रवर्तते, भूतमियं ब्राह्मणीति भेदेनेयं विचारणा, प्रयोगोऽपि स्वलिङ्गपरित्यागे दृश्यते-'श्रियो मे शिरसो मुखम्' इति? सत्यम्, नाप्राप्तलोपोऽयमारभ्यते। यथा “तत्स्था लोप्या विभक्तयः" (२।५।२) इति लोपं बाधते, तथा नपुंसकलक्षणमपि लोपम्। नैवम् , स्त्रीलिङ्गत्वं स्त्रीलिङ्गे पुंलिङ्ग च चरितार्थत्वात् कथं नपुंसकलिङ्गं बाधते। अथ 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इति खानुबन्धमाश्रित्य यस्मादस्मन्मते बहिरङ्गमित्यर्थः। एवम् 'अरुन्तुदः, अस्तुङ्कारः' इति दुष्यति "संयोगादेधुंटो लोपोऽनुस्वारश्च' (२।३।५५, ५६) न स्यात् । तस्मादिह प्रकरणेऽसिद्धं बहिरङ्गमित्यस्यानित्यत्वात् श्रियम्मन्यं ब्राह्मणकुलमिति भवितव्यम् ।।८७६।
[वि० प०] ___नामिनः । सान्निध्यादिति । सान्निध्यं पुनरिह सादृश्यमेव, तच्च रूपकृतम् । अत्र यद्यपि ह्यस्तन्यद्यतन्योरप्यमस्तदुपयोग्यता विद्यते तथापि न तत्कार्यस्यातिदेश: । तस्याडागमादिलक्षणस्य धातुष्वेव विधानात् । यस्य यत् कार्यमुक्तं तस्य तदेव, श्रुतत्वादिति भावः । प्रकृत्यनुरूपमेव निदर्शनमाह - यथेति । उदयाचलमस्तकस्थस्य रवे: करो रश्मिर्यथा तरुषु वर्तमान: किसलयमिव नवपल्लववद् गम्यते रक्त इति । कथं रक्त इति करणम् इति हेतौ यस्मादसौ रविकरो रक्त इत्यर्थः । अन्यस्तु रक्तमिति पाठं मन्यते तदा "नपुंसके भावे क्तः" (४।५।९३) द्रष्टव्यः । रञ्जनं रक्तम्, यस्माद् रक्तत्वं रविकरस्येति शेषः । अथ किमर्थं प्रत्ययग्रहणम् । अन्वच्चेत्यास्ताम्, तथा च सति प्रतिपत्तिलाघवं शब्दलाघवं च भवति । न चान्यस्यामः कार्यमिह युज्यते इत्यर्थाद् द्वितीयैकवचनवद् भविष्यति, तदयुक्तम्। एवं सति अम्शब्दोच्चारितमेव कार्यं प्रतिपद्येत। "अम्शसोरा" (३।३।३४) इत्यादिकम्, न घुटि च "ईदूतोरियुवौ स्वरे" (२।२।५६) इत्यादिकम् । नामिन इत्यादि । ज्ञामात्मानं मन्यते इति खश् । ननु चात्र पूर्वेण ह्रस्वत्वे सत्यमि कृतेऽकारलोपे च 'ज्ञम्मन्यः' इति सिद्धम् , किं नामिग्रहणेन ? तदयुक्तम् , इह परत्वानित्यत्वाच्च कृतस्याम: प्रत्ययवद्भूतस्य वाक्यावस्थायामेव दीर्घात् परलोप एवं स्यान्न तु ह्रस्वत्वम् , कथमन्यथा 'श्रियम्मन्यः' इत्यादयोऽपीति। किञ्चान्तरेण नामिग्रहणं व्यञ्जनान्तादपि स्यादिति त्वचमात्मानं मन्यते त्वङ्मन्येति ।।८७६।
[क० च०] नामिनः । अथ पूर्वतो दीर्घग्रहणं नानुवर्तते कथम्, न च नामिग्रहणादिति