________________
४४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. वधुम्मन्या दासी। वधू + मन् + खश् + आ + सि । वधूमात्मानं मन्यते या सा। 'वधू' उपपदपूर्वक 'मन ज्ञाने' (३।११३) धातु से “खश् चात्मने' (४।३।८०) सूत्र द्वारा ‘खश्' प्रत्यय, सार्बधातुकवद्भाव, 'दिवादेर्यन्” (३।२।३३) से यन् विकरण, प्रकृत सूत्र से ऊकार को ह्रस्व, “ह्रस्वारुषोर्मोऽन्तः'' (४।१।२२) से मकारागम, स्त्रीलिङ्ग में आ-प्रत्यय, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. ग्रामणिम्मन्यो दासः। ग्रामणी + मन् + खश् + सि । ग्रामणीमात्मानं मन्यते य: स: । 'ग्रामणी' उपपदपूर्वक 'मन ज्ञाने' (३।११३) धातु से खश् प्रत्यय तथा अन्य प्रक्रिया प्राय: पूर्ववत् ।
३. वृद्धम्मन्या। वृद्धा + मन् + खश् + आ + सि । वृद्धामात्मानं मन्यते या सा। वृद्धा-उपपदपूर्वक 'मन्' धातु से खश् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।
४. कालिम्मन्या। काली + मन् + खश् + आ + सि । कालीमात्मानं मन्यते या सा । 'काली' उपपदपूर्वक ‘मन्' धातु से खश् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
५. हरिणिम्मन्या। हरिणी + मन् + खश् + आ + सि । हरिणीमात्मानं मन्यते या सा । हरिणी-उपपदपूर्वक 'मन्' धातु से खश् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।।८७५।
८७६. नामिनोऽम् प्रत्ययवच्चैकस्वरस्य [४।१।२१] [सूत्रार्थ
अव्ययभिन्न, उपपद के रूप में विद्यमान, एकस्वरविशिष्ट नाम्यन्त शब्द के बाद 'अम्' आगम होता है, खानुबन्ध वाला प्रत्यय जिसके अन्त में हो ऐसी धातु के परे रहते। इस अमागम का प्रत्ययवद्भाव भी होगा ।।८७६।।
[दु० वृ०]
उपपदस्यानव्ययस्यैकस्वरस्य नामिनः परोऽम् भवति, खानुबन्धप्रत्ययान्ते धातौ परे। स च प्रत्यय इव सानिध्याद् द्वितीयैकवचनवत् । यथा - "रविकरस्तरुषु किसलयमिव रक्तः' इति गम्यते । नावम्मन्यः, नरम्मन्यः, श्रियम्मन्यः, गाम्मन्यः। नामिन इति किम् ? ज्ञम्मन्या । एकस्वरस्येति किम् ? सेनानिम्मन्यः ।।८७६।
[दु० टी०]
नामि०। ननु ‘सामान्यातिदेशे विशेषस्यानतिदेशः' इति। यथा . ब्राह्मणवद् इत्यनया श्रुत्या युक्तः पिण्ड: उपमानत्वेनोपादीयते न माथुरादयो हि विशेषाः । यदा तु कौण्डिन्यवत् क्षत्रिये प्रवर्तितव्यं ब्राह्मणत्वं कौण्डिन्यत्वमस्तीति सामान्यकार्यं विशेष्यकार्य च सर्वं लभते क्षत्रियः। तस्मात् प्रत्ययवदित्यतिदेशे द्वितीयैकवचनवच्चेति वक्तव्यं नेत्याह-सान्निध्यादिति। यथा लोके धनुश्चक्रं चानयेति धनु:सान्निध्यात् प्रहरणे चक्रे