________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
४३ दोषाशब्दोऽव्ययोऽपि । तथा च माघः- 'दोषापि नूनमहिमांशुरसौ किलेति'। यस्त्वनव्ययदोषाशब्दस्तस्य तु 'दोषम्मन्यं दिनम्' इति भवति । तथा च भट्टौ - 'तथा कथाभिः समतीत्य दोषाम्' इति ।
ननु अव्ययेभ्य: सर्ववचनस्योत्पत्तौ प्रयोजनाभावाद् अव्यवहितं प्रथमैकवचनमिति टीकाकृतोक्तम् , तत् कथम् अव्ययस्य कर्मत्वम् , येन तस्मिन्नुपपदे खश् प्राप्नोति? सत्यम् , प्रयोजनाभावादेव प्रथमैकवचनम् । यत्र तु प्रयोजनं विद्यते तत्रान्यवचनमपीति न दोषः। अत एव शुचिनक्तम् इत्याद्यपि सिद्धम्। वयं त्विति पञ्जिका। अथ दुर्गसिंहोक्तिरियं कथमनेनोक्तमित्युच्यते ? सत्यम् । वयम् अस्मदादय इत्यर्थः । सर्वनाम्न: सामान्यवचनत्वात् स हीति। स वररुचिर्यद्येवं पूर्वोक्तं मन्यमान: स्यात् तदा दीर्घग्रहणमपनीय स्वर इत्याचक्षीत इति । आद्यास्त्विति । वररुचिप्रभृतय इत्यर्थः । तेनायमर्थः - वररुचिप्रभृतयो वररुचेरभिप्रायं वर्णयन्ति, स्वयमेव सूत्रकृतो येनाभिप्रायेण सूत्रं कृतवन्तस्तेनाभिप्रायेण वृक्तावप्युक्तवन्त इत्येतेन पाणिनिमते परमरिम्मन्य:, अस्मन्मने परमरैमन्यः इति विरोधाद् इत्युक्तम् इत्यस्माकं पर्यनुयोगः सूत्रकारभाषितप्रलापात्।।८७५।
[समीक्षा]
'कालिम्मन्या, वधुम्मन्या, ग्रामणिम्मन्यः' इत्यादि शब्दों में 'काली-वधूग्रामणी' शब्दों का ह्रस्वविधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है-'खित्यनव्ययस्य' (अ० ६।३।६६)। अत: उभयत्र समानता ही है ।
[विशेष वचन] १. दीर्घग्रहणं तदन्तसुखार्थमित्येके (दु० वृ०) । २. प्रतिपत्तिरियं गरीयसी (दु० टी०, वि० प०) । ३. केचिदित्यनेन न वयमित्यर्थः (दु० टी०) । ४. आद्या वृत्तिकाराश्चैवमेवोदाहृतवन्तः (दु० टी०) । ५. सुखार्थवादिनस्तु नित्यं सन्ध्यक्षराणि दीर्घाणीत्याचक्षाणा: (वि० प०) । ६. एवमेव वररुचेरभिप्रायं वर्णयाम्बभूवुरिति (वि० प०) । ७. परत्वं तु विप्रतिषेधे भवति, तुल्यबलविरोधो विप्रतिषेधः, विप्रतिषेधे परं
कार्यम् इति (क० च०)। ८. सुखार्थमुपपदग्रहणम् (क० च०) । ९. आद्यास्त्विति । वररुचिप्रभृतय इत्यर्थः । वररुचिप्रभृतयो वररुचेरभिप्रायं
वर्णयन्ति स्वयमेव सूत्रकृतो येनाभिप्रायेण सूत्रं कृतवन्तस्तेनाभिप्रायेण वृत्तावप्पुक्तवन्त: (क० च०)।