________________
४२
कातन्त्रव्याकरणम्
कालशब्द एव, पश्चाद् विशेषविवक्षायाः स्त्रीप्रवृत्तत्वे सति यदा खशन्तात् स्त्रियामादा, तदैव कालादपि स्त्रियाम् ईप्रत्यय इति तुल्यकालप्राप्तिविषयोऽनयोरिति वैद्यः। तथा चोक्तम् -
यंदा खशन्तादभवत् स्त्रियामा कालादितः प्रत्यय ईस्तदैव । ह्रस्वत्वपुंवत्त्वकयोस्तु तुल्यकाल्यादिके विप्रतिषेध इत्त्थम् ।।
तदसत् , कालीमात्मानं मन्यते इति स्त्रीलिङ्गविग्रहात् । यद् वा विशेषवृने: प्राक् "ह्रस्वारुषोर्मोऽन्तः" (४।१।२२) इति मकारागमः, पश्चात् स्त्रीवृत्तावप्यकारान्तत्वाभावात् कथं स्त्रियाम् ईप्रत्यय इति, पञ्जिकाकृता सह विरोधाच्च। तथाहि "नान्यत् सार्वनामिकम्" (२।१।३३) इत्यत्र दक्षिणोत्तरपूर्वाणां स्त्रीणामित्यत्र सामान्यन द्वन्द्वे कृते पश्चात् प्रकरणबलात् स्त्रीत्वविवक्षा समुदायस्य, तद् यद्यवयवस्यापि भविष्यति, तदा दक्षिणोत्तरपूर्वाणामित्येव स्यात् तस्मात् समासे सति पश्चात् प्रकरणबलात् स्त्रीत्वविवक्षा समुदायस्यैव न त्ववयवस्य। तस्मादयमेव सिद्धान्तः "तस्य तेन समासः" (४।२।४) इत्यनेन कृत्प्रत्ययोत्पत्त्यनन्तरमेव समास: क्रियते, न च तत् स्त्रीप्रत्ययस्य विभनर्वा अपेक्षा, तस्मिंश्च सति पुंवद्भावो ह्रस्वत्वं च प्राप्नोतीति तयोः समासकालीनत्वम्।
अथ पंवत्सूत्रे स्त्रियां वर्तमाने पदे परत: स्त्रियां वर्तमानस्य पदस्य पंवद् इत्युभयत्रापि स्त्रियामिति सम्बन्धात् कथं स्त्रियामात: प्राक् पुंवदिति । नैवम् . स्त्रियामादां विनापि शब्दस्य स्त्रियां वर्तमानत्वे को विरोध: । न च वक्तव्यं विशेषविवक्षायां सापेक्षत्वात् कथं प्रत्ययः इति कर्तरि विधीयमानस्य खश्प्रत्ययस्य पदान्तरसमभिहारण प्रागेव स्त्रीप्रवृत्तौ बाधकाभावात् । न च तुल्याधिकरणे पदे इति वृत्तो विवरणादेवात्र 'मन्यः' इत्युपपदस्य पदत्वाभावात् कथं तस्मिन् पुंवदिति कथं सूत्रे तुल्याधिकरणस्य शब्दपरत्वात् तुल्याधिकरणे शब्द इत्यर्थः। वृत्तौ तु पद इत्युपलक्षणमात्रम् , पदस्यापि शब्दत्वादित्यर्थः । अथ कृदन्तस्य स्याद्युत्पत्तेः प्रागुपपदसमासे किं प्रमाणमिति चेदुच्यते "तस्य तेन समासः" (४।२।४) इत्यत्र विशेषाभावात्। गतिकारकोपपदानां कृभिः समासवचनं स्याद्युत्पत्तेः प्रागिति न्यायाश्रयणाच्च वृद्धम्मन्या इत्युदाहरणमात्रं नाशङ्कापरमिति दुर्गादित्यः।
ननु पञ्जिकाकृता सह विरोधाद् अनुबन्धग्रहणस्यायमर्थ इत्यादिना त्रीण्युदाहरणान्युद्दिश्य आशङ्कां कृतवानिति हेमोक्तमेव साधु । परत्वादिति वृत्तौ पाठो नास्तीति लक्ष्यते, टीकायां हेतुत्वेनोपन्यस्तत्वात् । पटवी प्रियंवदेति । अथ 'येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्' (व्या० परि० ३९) इति न्यायाद् धातुव्यवधान एव भविष्यति, कथं प्रियशब्दस्य व्यवधाने प्रसङ्गः । अथ सोपपदविधिना निरुपपदविधयो बाध्यन्ते इति ज्ञापनार्थं भविष्यति, तेन नित्यं रात्रिम्मन्येति। अन्यथा "वा कृति रात्रेः" (४।१।२८) इति विकल्प: स्यात् । नैवम्, अन्तरङ्गत्वाद् युक्तिव्याख्यानाद् वा नित्यमेव भविष्यति ह्रस्वारुषोरित्यनेन ? सत्यम् , तदा सुखार्थमुपपदग्रहणम् । दिवेति । एवं दोषामन्यं दिनम्।