________________
४१
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः विवक्षितेत्यादि । विवक्षिते कर्तृकर्मणी यस्मिंस्तद् विवक्षितकर्तृकर्म तच्च तदेकवस्तु चेति विवक्षितकर्तृकर्मैकवस्तु, तस्मिन् प्राप्तमित्यर्थः । वृद्धामात्मानं मन्यते, कालीमात्मानं मन्यते, हरिणीमात्मानं मन्यते इति विवक्षावशादेक एवार्थ:, कर्ता कर्म च वर्तते । ततो यथा विदुषीमात्मानं मन्यते विद्वन्मानिनीत्यादौ पुंवद्भाषितेत्यादिना णिनि पुंवद्भावः। यद् वक्ष्यति -'तुल्याधिकरणत्वाणिनि पंवभावः' इति । तथा खश्प्रत्ययेऽपि प्राप्नोतीति। अतः परत्वादयं ह्रस्वो बाधते इति । ह्रस्वे सति स्त्रीकारो न निवर्तते । अथ किमर्थमिदं दीर्घग्रहणम्, स्वरस्यैव स्थाने ह्रस्वस्तद्धर्मो भविष्यतीति? सत्यम्, तदन्तार्थम्। अन्यथा वाचमात्मानं मन्यते वाङ्मन्येति । मध्यस्यापि स्वरस्य ह्रस्वः स्यादिति। तदयुक्तम्, सामर्थ्यप्राप्तेन स्वरेण तदन्तविशेषणं भविष्यतीति? सत्यम, एवं सति प्रतिपत्तिरियं गरीयसीत्याह-दीघेति । एके अन्ये। वयं तु पश्याम:-दीर्घग्रहणमदीर्घस्य व्यावृत्त्यर्थमेव। तेन ‘परमनौमन्यः, उत्तमरैमन्यः' इति सिद्धम् । इह सन्ध्यक्षराणामदीर्घत्वान्न ह्रस्वः। सखार्थवादिनस्तु नित्यं सन्ध्यक्षराणि दीर्घाणीत्याचक्षाणा: ‘परमनम्मन्यः, उत्तमरिम्मन्यः' इति ह्रस्वमेव प्रतिपन्नाः। स हि यद्येवम्मन्यमानः स्वरस्येत्याचक्षीत, यथा "स्वरो ह्रस्वो नपुंसके" (२।४।५२) इति, किं दीर्घग्रहणं स्वरविशेषार्थमभिदध्यादिति । आद्या वृत्तिकारास्तु एवमेव वररुचेरभिप्रायं वर्णयाम्बभूवरिति । पटवी प्रियंवदेति । "वदेः खः प्रियवशयोः" (४।३।३९) इति । इह प्रियशब्दस्योपपदत्वं न पट्वीशब्दस्येति ।।८७५।
[क० च०]
दीर्घस्य० । ऋकार: स्थितिमानास्तीति यदनबन्धग्रहणं तद् 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (व्या० परि० ४६) इति परिभाषाज्ञापनार्थम् । एतच्च यदि "ज्णानुबन्थे०" (४।१।१) इत्यस्यानुबन्धग्रहणादुच्यते, तदा सुरार्थम्। खानुबन्धप्रत्ययान्ते परे उपपदमव्यवहितं न सम्भवतीत्यर्थाद् 'येन नाव्यवधानं तेन व्यवहितेऽपि' (व्या० परि० ३८) स्यादिति पर्यवसितार्थमाह - खानुबन्धे प्रत्ययान्ते धातो पर इति। वृद्धम्मन्येत्यादि । प्राप्तमिति आदिकर्मणि क्तः, प्राप्तुमारभमाण इत्यर्थः। न च सामान्यातीते, प्रवृत्तस्य निषेद्धमशक्यत्वात्। ननु यथा 'दीर्घजङ्घः' इत्यत्र तुल्याधिकरणत्वम्, तथा नात्र कालीशब्दस्य कर्मत्वं मन्याशब्दरूपस्य कर्तृत्वम् , अतो. भेदेनान्वयबोधात् कथं तुल्यार्थता? सत्यम्। एकाधिकरणे एकार्थत्वप्रयुक्ते इत्येव तत्रार्थः। न च तत्र विभक्तिगतभेदाभेदविचारोऽस्ति. न वा स्वमते कर्मादिकं लिङ्गार्थम् , द्विकवादित्वात्, येनार्थभेदोऽपि वाच्यः। तेन विभक्तिभेदेऽपि सामान्यत: की सैव कालीशब्दवाच्या इत्येकव्यक्तौ शब्दद्वयस्य प्रवृत्तत्वात् तुल्याधिकरणता।।
ननु पुंवद्भावह्रस्वयोरेककालप्राप्तेरभावात् कथं परत्वेन बाधकत्वमुच्यते। परत्वं तु विप्रतिषेधे भवति । विप्रतिषेधश्च यत्रान्यार्थी द्वौ प्रसङ्गावेकस्मिन् विषये युगपत् प्राप्नुतः स तुल्यबलविरोधो विप्रतिषेधः । विप्रतिषेधे परं कार्यमिति । अत्र तु खशब्दात् स्त्रीप्रत्यये सति पुंवद्भावो ह्रस्वस्तु प्रागेव? सत्यम्, सामान्यकर्तरि खश्प्रत्ययो विशेषापेक्षत्वाद् इदानीं