________________
४
कातन्त्रव्याकरणम्
.
३. छदिः। छद् + इन् + इस् + सि । छादयति । इन्प्रत्ययान्त 'छादि' धात् से इस् प्रत्यय, ह्रस्व, इन्लोप तथा विभक्तिकार्य ।
४. छद्म। छद् + इन् + मन् + सि । 'छादि' धातु से मन् प्रत्यय, ह्रस्व, इन्लोप तथा विभक्तिकार्य ।
__५. छत्रम्। छादि + वन् + सि । छाद्यतेऽनेन । 'छादि' धातु से त्रन् प्रत्यय, ह्रस्व, इन्लोप तथा विभक्तिकार्य ।
६. तनुच्छत् । तनु + छादि + क्विप् + सि । तनु - उपपदपूर्वक 'छादि' धातु से क्विप् प्रत्यय, सर्वापहारी लोप, ह्रस्व, इन्लोप तथा विभक्तिकार्य ।।८७४। ८७५. दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे [४।१।२०]
[सूत्रार्थ
ख - अनुबन्ध वाला कृत्प्रत्यय जिसके अन्त में हो वैसी धात् के परे रहते अव्ययभिन्न दीर्घान्त पूर्ववर्ती पद को ह्रस्वादेश होता है ।।८७५।
[दु० वृ०]
दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे प्रत्ययान्ते धातौ परे ह्रस्वो भवति । वधुम्मन्या दासी, ग्रामणिम्मन्यो दास: । वृद्धम्मन्या, कालिम्मन्या । हरिणिम्मन्येति विवक्षितकर्तृकर्मैकवस्तुप्राप्तं वद्भावं बाधते परत्वात् । दीर्घग्रहणं तदन्तसुखार्थमित्येके। वाङ्मन्या । उपपदस्येति किम् ? पट्वी प्रियंवदा । अनव्ययस्येति किम् ? दिवामन्या रात्रिः ||८७५।
[दु० टी०]
दीर्घस्य० । "खश् चात्मने" (४।३।८०) इति खश् । एकं च तद् वस्तु चेति एकवस्तु। कर्ता च कर्म च कर्तृकर्मणी। विवक्षिते कर्तृकर्मणी यस्मिन्नेकवस्तुनीति विग्रहः। तुल्याधिकरणत्वात् प्राप्तं पंवद्भावं बाधते, परत्वादित्यर्थः । नन् किमर्थं दीर्घग्रहणम् , ह्रस्वेन सामर्थ्यादानीतं स्वरग्रहणम् , तेन तदन्तं विशेषयिष्यामः । कुतो यत्र तत्र स्थितस्य स्वरस्य ह्रस्व इति ? सत्यम् , प्रतिपत्तिरियं गरीयसीत्याह - दीर्धेत्यादि । केचिदित्यनेन न वयमित्यर्थः । दीर्घग्रहणमदीर्घव्यावर्त्तनार्थम् , पूर्वो ह्रस्व: परो दीर्घ इति । परमतेन 'रैमन्यः, उत्तमनौमन्यः' इति भवितव्यम् , अन्यथा स्वरस्येति विदध्यात् । यथा “स्वरो ह्रस्वो नपुंसके'' (२।४।५२) इति । आहा वृत्तिकाराश्चैवमेवोदाहृतवन्तः, परदर्शने त् 'परमरिम्मन्यः, उत्तमनुम्मन्यः' इति । पट्वी प्रियंवदेति । "वदेः खः प्रियवशयोः" (४।३।३९), प्रियशब्दस्योपपदत्वम् , न पट्वीशब्दस्येति ॥८७५।
[वि० प०]
दीर्घस्य० । वधूमात्मानं मन्यते इति विगृह्य "खश् चात्मने" (४।३८०) इति खश, दिवादेर्यन् , ह्रस्वत्वे कृते "ह्रस्वारुषोर्मोऽन्तः" (४।१।२२) इति मकारो भवति ।