________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः ३९ [दु० वृ०]
छादेर्धातोर्घ-इस् - मन् - वन् - क्विप् - एषु परतो दीर्घा ह्रस्वो भवति । 'छद खट्व संवरणे' (९।२३)। उरश्छदः, प्रच्छदः । एकोपसर्गस्यैव घे व्यवस्थितवास्मरणात्। तेन समुपच्छादः । अर्चि - शुचि - रुचि - हु - सृपि - छादि - छर्दिभ्य इस् । छादयतीति छदिः, छदिषी, छदीषि। मन्-छद्म। त्रन् - छाद्यतेऽनेनेति छत्रम् । क्विप्तनुच्छत् ।।८७४।
[दु० टी०]
छादेः । छादेरित्यादि । चौरादिकत्वात् स्वार्थे इन् । प्रच्छाद्यतेऽनेनेति प्रच्छदः। "पुंसि संज्ञायां घः" (४५।९६) । एक इत्यादि । ह्लादो ह्रस्व इत्यत्र न स्मर्यते विभाषेत्यर्थः। एकोपसर्गस्यैव घे प्रत्ययेऽनेकोपसर्गस्य न भवतीति व्यावृत्त्या केवलस्य छादेर्हस्व: स्यादेव। किञ्च समुपच्छादः, समुपाधिच्छाद: इति संज्ञायां घो नाभिधीयते इति मतम् । चकार उक्तसमुच्चयमात्रे। घ इति किम् ? प्रच्छादनं प्रच्छादः। 'एकानुबन्धग्रहणे न व्यनुबन्धकस्य' (व्या० परि० ४६) इति घञो न ग्रहणम्। अथ किमर्थं छादेरित्यर्थाद् इन्व्यवधाने भविष्यति ? सत्यम् , प्रतिपत्तिरियं गरीयसीति। ननु कारितलोपे कृते निमित्ताभावे नैमित्तिकस्याप्यभावो भविष्यति किमनेन । न च दीर्घविधिं प्रति स्थानिवद्भावो न पदान्तेत्यादिना निषेधात् ? सत्यम्। प्रत्ययलोपे प्रत्ययलक्षणं स्यादिति, कथमन्यथा प्रच्छादनमिति दीर्घः ।।८७४।।
[समीक्षा
'उरश्छदः, प्रच्छदः, दन्तच्छदः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में ह्रस्वविधान किया गया है । पाणिनि के दो सूत्र हैं – “छादेर्थेऽव्युपसर्गस्य, इस्मन्त्रन्क्विषु च'' (अ० ६।४।९६, ९७) । पाणिनीय व्याकरण में दो सूत्रों से उत्पन्न गौरव को छोड़कर अन्य तो उभयत्र समानता ही है ।
[विशेष वचन] १. चकार उक्तसमुच्चयमात्रे (दु० टी०)। २. प्रतिपत्तिरियं गरीयसीति (दु० टी०) । [रूपसिद्धि]
१. उरश्छदः। उरस् + छादि + घ + सि । छाद्यतेऽनेन । 'छद संवरणे' (९।२३) धातु से इन् प्रत्यय, उपधादीर्घ, घप्रत्यय, प्रकृतसूत्र से ह्रस्व । उरसश्छदः। उरस् - शब्द के साथ समास, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. प्रच्छदः। प्र + छादि + घ + सि । प्र-उपसर्गपूर्वक 'छादि' धातु से घप्रत्यय, प्रकृत सूत्र से ह्रस्व, इन् का लोप तथा विभक्तिकार्य ।