________________
३८
कातन्त्रव्याकरणम्
८७३. ह्लादो ह्रस्वः [४।१।१८]
[सूत्रार्थ]
निष्ठासंज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते ‘ह्लाद्' धातुगत आकार को ह्रस्वादेश होता है ॥८७३।
[दु० वृ०] ह्लादो दीघों ह्रस्वो भवति निष्ठामात्रे । प्रह्लत्रः, प्रह्लनवान् । प्रह्लत्तिरिति क्तौ चेष्यते ॥८७३।।
[दु० टी०]
ह्लादः । निष्ठामात्र इति भावादिकर्मणोर्विहितायां निष्ठायामिति सम्बन्धो नात्र, अधिकारस्येष्टत्वात् , तेन कर्तर्यपि भवति । अर्थवशात् प्रथमान्तोऽपि सप्तम्यन्तत्वेन परिणत: प्रह्लत्तिरिति कैश्चिदिष्यते इत्यर्थ: । इह तु दीर्घवानेव प्रह्लात्तिरिति प्रमाणम् ।।८७३।
[वि० प०]
ह्लादः । विशेषातिदिष्टत्वाद् भावादिकर्मणोरिति न वर्तते, तेन सामान्येन निष्ठा गम्यते । अर्थवशाद् विभक्तिविपरिणामश्चेत्याह-निष्ठामात्र इति । प्रह्लत्तिरिति क्तौ चेष्यते इति कैश्चिदिति शेषः । इह तु प्रह्लात्तिरिति प्रमाणम् ।।८७३।
[समीक्षा]
'प्रहन्नः, प्रहन्नवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में ह्लादधातुगत आकार को ह्रस्वविधान किया गया है । पाणिनि का सूत्र है - "ह्लादो निष्ठायाम्' (अ० ६।४।९५) । अत: उभयत्र समानता है ।
[विशेष वचन] १. प्रहृत्तिरिति कैश्चिदिष्यते इत्यर्थः (दु० टी०; वि० प०) । २. अर्थवशाद् विभक्तिविपरिणाम: (वि० प०)। [रूपसिद्धि]
१-२. प्रहुन्नः, प्रहनवान् । प्र + ह्राद् + क्त, क्तवन्तु + सि । प्र-उपसर्गपूर्वक 'हादी सुखे च' (१।३१२) धातु से 'क्त-क्तवन्तु' प्रत्यय, “न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः' (४।६।९०) से अनिट् , प्रकृत सूत्र से आकार को ह्रस्व, "दाद् दस्य च" (४।६।१०२) से तकार-दकार को नकार तथा विभक्तिकार्य ॥८७३।
८७४. छादेर्धेस्मन्त्रन्क्विप्सु च [४।१।१९] [सूत्रार्थ
'घ-इस् - मन् - वन - क्विप्' प्रत्ययों के परे रहते इन् - प्रत्ययान्त 'छादि' धातु के आकार को ह्रस्वादेश होता है ।। ८७४।