________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः द्योतितमनेन । प्रद्युतितः, प्रद्योतित: । "आदिकर्मणि क्तः कर्तरि च'' (४।६।४८)। व्यवस्थितवाधिकाराद् गुण्यन: स्यात् । निगुधितम् ।।८७२।।
[दु० टी०]
भावादि० । आदिभूते क्रियालक्षणे भूतत्वेन विवक्षिते य: क्तो भवति, स आदिकर्मणि वर्तते इत्यर्थ: । "आदिकर्मणि क्तः कर्तरि च" (४।६।४८) इति कर्तयेव क्तप्रत्ययो धुतेरकर्मकत्वात् नापि भावे विशेषप्रसङ्गाभावात् कर्तरि ये उत्पन्न: स आदिकर्मणीत्युच्यते। आदिकर्मयोगश्चार्थद्वारक इति । व्यवस्थितेत्यादि । गुणी अन् विकरणो यस्माद् धातोरसौ गुण्यन्, तत एव भवतीत्यर्थः। 'गुध परिवेष्टने' (३।११) इति यन् विकरणो वर्तते, विभाषाऽत्र न भवतीत्यर्थ: । वृत्तौ गुणिग्रहणात् तौदादिकादपि न विभाषा । 'तुफ तुन्फ' (५।३२) । तुफितमनेन । आदादिकाद् भवत्येव विभाषा । 'तुर त्वरणे' (२।७७) । तुरितम्, तोरितमनेनेति । उदिति तकारः सुखप्रतिपत्त्यर्थः ।।८७२।
[वि०प०]
भावादि० । व्यवस्थितेत्यादि । गुणी अन् विकरणो यस्माद् धातोरसौ गुण्यन, तस्मादेवेत्यर्थः । 'गुध परिवेष्टने' (३।११) इति देवादिकत्वाद् यन् विकरणो वर्तते । गुणीति विशेषणात् तौदादिकादपि न विभाषा । तेन 'तुफ तुन्फ' (५।३२) तुफितमनेन । आदादिकत्वाद् विभाषैव । 'तुर त्वरणे' (२।७७) । तुरितमनेन, तोरितमनेनेति ।।८७२।
[समीक्षा
'द्युतितम् , द्योतितम् ' आदि शब्दरूपों के सिद्ध्यर्थ वैकल्पिक गुणविधान की व्यवस्था दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है - "उदुपधाद् भावादिकर्मणोरन्यतरस्याम्' (अ० ११२।२१) । इससे निष्ठा प्रत्यय को विकल्प से किद्भाव होता है, कित्पक्ष में “विङति च" (अ० ११२।५) से गुण नहीं हो पाता है, जबकि पक्ष में गुण प्रवृत्त होता है । कातन्त्रकार ने साक्षात् गुणीभाव करके लाघव दिखाया है ।
[विशेष वचन] १. उदित तकारः सुखप्रतिपत्त्यर्थः (दु० टी०) । [रूपसिद्धि]
१. द्युतितम् , द्योतितम्। द्युत् + इट् + क्त + सि । 'द्युत दीप्तौ' (१।४७३) धातु से 'क्त' प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुणीभाव, लिङ्गसंज्ञा, सिप्रत्यय तथा “अकारादसम्बुद्धौ मुश्च' (२।२।७) से 'मु' आगम-सिलोप ।
____२. प्रद्युतितः, प्रद्योतितः। प्र + द्युत् + इट् + क्त + सि । प्र-उपसर्गपूर्वक 'द्युत दीप्तौ' (१।४७३) धातु से क्तप्रत्ययादि पूर्ववत् ।।८७२।