________________
कातन्त्रव्याकरणम्
२. नरम्मन्यः। नृ + मन् + खश् + सि । 'नृ' शब्द के उपपद में रहने पर 'मन्' धातु से खश् प्रत्यय, यन् - विकरण, अमागम, ऋकार को अर्, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
३. श्रियम्मन्यः। श्री + मन् + खश् + सि । 'श्री' शब्द के उपपद में रहने पर मन् धातु से खश् प्रत्यय आदि प्रक्रिया पूर्ववत् ।
४. गाम्मन्यः। गो + मन् + खश् + सि । 'गो' शब्द के उपपद में रहने पर मन् धातु से खश् प्रत्यय आदि प्रक्रिया पूर्ववत् ॥८७६।
८७७. ह्रस्वारुषोर्मोऽन्तः [४।१।२२] [सूत्रार्थ
खानुबन्ध प्रत्ययान्त धातु के परे रहते अव्ययभिन्न ह्रस्वान्त उपपद तथा 'अरुष्' शब्द के अन्त में मकारागम होता है ।।८७७।
[दु० वृ०]
उपपदस्यानव्ययस्य ह्रस्वान्तस्यारुषश्च मकारोऽन्तो भवति खानुबन्धप्रत्ययान्ते धातौ परे । नाडिन्धमः, अङ्गमेजपः, जनमेजयः, अरुन्तुदः। "संयोगादेधुंटः" (२।३।५५) इति सलोपः। अनव्ययस्येति किम् ? सुकरः कटः ॥८७७।
[दु० टी०]
ह्रस्वा० । म इत्यकार उच्चारणार्थः। नाडिन्धमः इति । "नाडीकरमुष्टिपाणिनासिकासु ध्मश्च" (४।३।३२) इति खश् । 'अङ्गमेजयः' इति “एजे: खश्” (४।३।३०)। अरुन्तुदः इति । "विध्वरुस्तिलेषु तुदः" (४।३।३३) इति खश् ॥८७७)
[वि० प०]
ह्रस्वा० । नाडिन्धमः इत्यादि । “नाडीकरमुष्टिपाणिनासिकासु ध्मश्च, एजेः खश् , विध्वरुस्तिलेषु तुदः" (४।३।३२, ३०, ३३) इत्येतैर्यथायोगं सर्वत्र खश् । सुकर इति खल् ।।८७७।
[क० च०] ____ ह्रर ० नाम्येकस्वरयो नुवृत्तिह्रस्वस्य समाननिविष्टत्वेन विशेष्याभावाद् "वदेः खः ...प शयोः" (४।३।३९) इति वचनाच्चाधिकृतेऽन्तग्रहणं मुखार्थं तदा 'अरुन्तुदः' इति कथं सकारलोपः, 'असिद्धं बहिरङ्गम्०' (का० परि० ३३) इति न्यायात् ? सत्यम् , अत्र नाश्रीयते असिद्धवद्भाव: ।।८७७।
[समीक्षा]
'अरुन्तुदः, जनमेजय:' आदि शब्दरूपों के सिद्धयर्थ उपपद के अन्त में अपेक्षित मकार का विधान दोनों व्याकरणों में आगम के रूप में किया गया है । पाणिनि का सूत्र है - "अरुर्दिषदजन्तस्य मुम्' (अ० ६।३।६७) । अत: प्राय: उभयत्र समानता ही है।