________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [दु० टी०]
शीङ्० । धर्षित इति । आदनुबन्धाच्चेतीप्रतिषेधो नास्ति, तत्र हि प्रागल्भ्य एवेति वक्ष्यति । स्वेदितमित्यादौ भावे दर्शिता निष्ठा। आदिकर्मणि तु प्रक्षेदितः, प्रस्वेदित इत्यादि। प्रशब्द आदिकर्मणो द्योतकः । शीफूङोर्डकारानुबन्धः स्पष्टार्थ एव। कश्चिद् आह - 'शेश्यित:, शेश्यितवान्' इति प्रकृतिग्रहणे चेक्रीयितलुगन्तस्यापि ग्रहणं मा भूदिति तन्न, छान्दसत्वात् । एवं पोपुवितः, पोपुवितवान् इति । पूङस्तु "न
युवर्णवृतां कानुबन्धे' (४।६।७९) इतीडभाव एवेति । उत्तरत्रेत्यादि । उभयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीत्यर्थः ।।८७०।
[वि० प०]
शी० । निष्ठायाः स्त्रीलिङ्गत्वाद् गुणिनी भवतीति वक्तुं युज्यते । कथमुक्तम्गुणी भवतीति ? सत्यम् , सेड् गुणीति सामान्येन प्रयुज्य पश्चानिष्ठेति सम्बन्धनीयम्। धर्षित इति । आदनुबन्धाच्चेतीप्रतिषेधो नास्तीति तत्र प्रागल्भ्य एवार्थे प्रतिषेधस्य वक्ष्यमाणत्वात् ।।८७०।
[समीक्षा]
'शयित:-शयितवान्' आदि शब्दरूपों के सिद्ध्यर्थ धातुगत ईकारादि के गुण की आवश्यकता होती है, जिसका निर्वाह दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है - “निष्ठा शीस्विदिमिदिक्ष्विदिधृषः' (अ० १।२।१९) । तदनुसार सेट् निष्ठा को कित् नहीं माना गया, जिसके फलस्वरूप “क्ङिति च" (अ०१।१।५) से गुणनिषेध प्रवृत्त नहीं होता । कातन्त्रकार ने साक्षात गणविधान से लाघव दिखाया है ।
[विशेष वचन] १. उत्तरत्र वावचनान्नित्यमिहेति (दु० वृ०) । २. उभयोर्विभाषयोर्मध्ये ये विधयस्ते नित्या भवन्तीत्यर्थः (दु० टी०)। [रूपसिद्धि]
१-२. शयितः, शयितवान् । शीङ् + इट् + क्त, क्तवन्तु + सि । 'शीङ् स्वप्ने' (२।५५) धातु से “निष्ठा' (४।३।९३) सूत्र द्वारा ‘क्त-क्तवन्तु' प्रत्यय, इडागम, प्रकृत सूत्र से गुणीभाव, लिङ्गसंज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ, सकार को विसर्ग अथवा लोप ।
३-४. पवितः, पवितवान् । पूङ् + इट् + क्त, क्तवन्तु + सि । 'पूङ् पवने' (१।४६५) धातु से 'क्त-क्तवन्तु' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
५-६. धर्षितः, धर्षितवान् । धृष् + इट् + क्त, क्तवन्तु + सि । ‘धृष प्रहसने' (९।२८९) धातु से क्तप्रत्ययादि प्रक्रिया पूर्ववत् ।