________________
कातन्त्रव्याकरणम्
३४
८६९. जान्तनशामनिटाम् [४।१।१४] [सूत्रार्थ
अनिट-नकारघटित जकारान्त धातुओं से तथा नश् धातु से होने वाले क्त्वा प्रत्यय को गणीभाव विकल्प से होता है ।।८६९।
[दु० वृ०]
जान्तनशामनिटामनुषङ्गिणां क्त्वा गुणी भवति वा । भक्त्वा , भक्त्वा । रङ्क्त्वा , रक्त्वा । नंष्ट्वा, नष्ट्वा । "मस्जिनशोधुटि'' (३।५।३१) इति नकारागमः। अनिटामिति किम्? अञ्जित्वा ।।८६९।
[दु० टी०]
जान्त० । अन्तग्रहणमिहापि स्पष्टार्थमेव । रधादित्वात्रशिर्विभाषेट । अञ्जित्वेति। ऊदनुबन्धत्वाद् विकल्पेट ।।८६९।
[समीक्षा] द्रष्टव्य सूत्रसंख्या- ८६८ । [विशेष वचन] १. अन्तग्रहणमिहापि स्पष्टार्थमेव (दु० टी०) । [रूपसिद्धि]
१. भक्त्वा -भक्त्वा । भन्ज् + क्त्वा + सि । 'भन्जो आमर्दने' (६।१३) धातु से क्त्वाप्रत्यय, अनिट् , वैकल्पिक गुणीभाव, गुणीभावपक्ष में नलोप तथा विभक्तिकार्य ।
२. रङ्क्त्वा - रक्त्वा । रन्ज् + क्त्वा + सि । 'रन्ज रागे' (१।६०५) धातु से क्त्वाप्रत्यय, अनिट् , गुणीभाव, वैकल्पिक नकारलोप तथा विभक्तिकार्य ।
३. नंष्ट्वा- नष्ट्वा। नश् + क्त्वा + सि । 'नश अदर्शने' (३।४१) धातु से क्त्वाप्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।८६९। ८७०. शीपूघृषिक्षिदिस्विदिमिदां निष्ठा सेट [४।१।१५]
[सूत्रार्थ
शीङ् इत्यादि छह धातुओं से होने वाले सेट ‘क्त-क्तवन्तु' प्रत्ययों को गुणीभाव होता है ||८७०।
[दु० वृ०]
शीङादीनां सेड् निष्ठा गुणी भवति । शयित:, शयितवान् । पवित:, पवितवान्। "पूक्लिशोर्वा" (४।६।८९) इतीट् । धर्षित:, धर्षितवान् । क्षेदितम् , स्वेदितम् , मेदितम्। प्रक्षेदित:, प्रस्वेदित:, प्रमेदित: । आदनुबन्धत्वाद् "भावादिकर्मणोर्वा" (४।६।९२) इतीट् । सेडिति किम् ? पूत:, धृष्टः । उत्तरत्र वावचनान्नित्यमिहेति ।।८७०।