________________
___३३
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः कथनयुक्तनिन्दाहिंसादानेषु। अनुषङ्गिग्रहणबलाद् योगान्तरगतो विकल्पो बाध्यते इत्यर्थः। न च ऋकारोपधस्यानुषङ्गिग्रहणस्य प्रत्युदाहरणविषये ऋफ ऋन्फ हिंसायामिति, यस्मात् सत्यप्यनुषङ्गिग्रहणे ऋफेर्गुणी क्त्वा सेडिति अर्फित्वा ऋन्फेरनुषङ्गिणोऽप्यस्मिन् विकल्पे ऋफित्वा-ऋम्फित्वेति रूपत्रयमसत्यपि तदेवेति भावः । अन्तग्रहणमिह स्पष्टार्थमिति भावः ।।८६८।
[वि० प०]
थफा० । कोथित्वा, रेफित्वेति । 'कुथ पूतीभावे, रिफ कथनयुद्धनिन्दाहिंसादानेषु' (३।९; ५।३०), यदि पुनरिह “व्यञ्जनादेर्युपधस्यावो वा' (४।१।११) इत्यनेन विकल्प: स्यात् तदानुषङ्गिग्रहणमनर्थकं स्याद् व्यावृत्तेरभावात्। अथ नानर्थकम् ऋफेऱ्यावृत्तिविषयत्वात् । यथा “ऋफ ऋन्फ हिंसायाम्” (५।३२) इति, तदयुक्तम् , अनुषङ्गिग्रहणे ऋफेर्गुणी क्त्वा सेडिति वचनाद् अर्फित्वा, ऋन्फेरनुषङ्गिणोऽपि अनेन विकल्पे सति ऋम्फित्वा, ऋफित्वेति रूपत्रयम् । एतच्चासत्यप्यनुषङ्गिग्रहणे स्यादेवेति नास्ति व्यावृत्तिरन्यत्रेत्याह - व्युपधत्वेऽपीति ।।८६८।
[समीक्षा]
'ग्रथित्वा-ग्रन्थित्वा, गुफित्वा-गुम्फित्वा' आदि शब्दरूपों के सिद्ध्यर्थ वैकल्पिक नलोप की अपेक्षा होती है । इसका विधान उभयत्र किया गया है । पाणिनि का सूत्र है - "नोपधात् थफान्ताद् वा” (अ० १।२।२३) । तदनुसार क्त्वा को विकल्प से किद्भाव होता है, किद्भावपक्ष में नलोप प्रवृत्त होता है अन्यथा नहीं । कातन्त्रकार ने क्त्वा को गुणी मानकर यह कार्य किया है । अत: उभयत्र समानता है ।
[विशेष वचन १. अन्तग्रहणमिह स्पष्टार्थमेव (दु० टी०) । [रूपसिद्धि]
१. अन्थित्वा - अथित्वा। श्रन्थ् + इट् + क्त्वा + सि । 'श्रन्थ मोचनप्रतिहर्षणयोः' (८।३३) धातु से क्त्वा प्रत्यय, इडागम, प्रकृत सूत्र से वैकल्पिक गुणीभाव, नलोप तथा विभक्तिकार्य ।
२. ग्रन्थित्वा-ग्रथित्वा। ग्रन्थ् + इट् + क्त्वा + सि । ‘ग्रन्थ सन्दर्भे' (८।३५) धातु से क्त्वा प्रत्यय, इडागम, वैकल्पिक गुणीभाव, नलोप तथा विभक्तिकार्य ।
३. गुम्फित्वा-गुफित्वा। गुन्फ् + इट् + क्त्वा + सि । ‘गुन्फ ग्रन्थे' (५।३४) धातु से क्त्वा प्रत्यय, इडागम, वैकल्पिक गुणीभाव, नकारलोप तथा विभक्तिकार्य ।।८६८।