________________
६५२
कातन्त्रव्याकरणम् ज्ञानार्थाद् विदिं नित्यं स्यादिटा व्यवधानतः। वित्तं विन्नं विचारार्थात् सत्तार्थाद् विन्नमेव च।। वित्तमेव तु लाभार्थात् प्रतीतधनयोर्भवेत्। अन्यत्र विन्नमेवेति सुधियः स्मृतिमाश्रिताः।। १३९५। [क० त०]
ह्री०। दस्य चेति प्रवर्तने न समुन्नः इत्यादावुभयत्र नत्वम्। तथेति, व्यवस्थितविभाषाश्रयणादित्यर्थः। पद्भ्यामन्यत्रेति। प्रतीतधनयोरन्यत्रेत्यर्थः।।१३९५।
[समीक्षा]
'नुत्रः, त्राणः, घ्राणवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ पाणिनि तथा कातन्त्रकार दोनों ही आचार्यों ने वैकल्पिक नकारादेश किया है। पाणिनि का सूत्र है- “नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्' (अ०८।२।५६)। इस प्रकार उभयत्र पूर्ण समानता ही है।
[विशेष वचन] १. व्यवस्थितविभाषया नित्यं संज्ञायाम्- देवत्रात: (दु०१०)। २. केचित् सञ्ज्ञायामपि विकल्पयन्तीति (वि०प०)। [रूपसिद्धि
१-१२. ह्रीणः, ह्रीतः। ह्री+क्त+सि। ह्रीणवान्, ह्रीतवान्। ह्री-क्तवन्तु-सि। घ्राणः, घ्रातः। घ्रा+क्त+सि। घ्राणवान्, घ्रातवान्। घ्रा+ क्तवन्तु-सि। त्राणः, त्रातः। त्रा+त+ सि। त्राणवान्, त्रातवान्। त्रा+ क्तवन्तु+सि। समुन्नः, समुत्तः। सम्+उन्द+क्त+सि। समुन्नवान्, समुत्तवान्। सम्+उद्+क्तवन्तु+सि। नुन्न:, नुत्तः। नुद्+क्त+सि। नुत्रवान्, नुत्तवान्। नुद्+क्तवन्तु+सि। विनः, वित्तः। विद्+क्त+सि। विनवान, वित्तवान्। विद्+क्तवन्तु+सि। 'ह्री-घ्रा' इत्यादि धातुओं से क्त-क्तवन्तु प्रत्यय, प्रकृत सूत्र द्वारा वैकल्पिक नकारादेश, नकार को पकार तथा विभक्तिकार्य।।१३९५।
१३९६. क्षैशुषिपचां मकवाः [४।६।१११] [सूत्रार्थ)
क्षै-शुष्-पच धातुओं से परवर्ती निष्ठातकार के स्थान में क्रमश: ‘म-कव' आदेश होते हैं।।१३९६।
[दु०वृ०]
एभ्यो निष्ठातकारस्य यथासङ्ख्यं मकवा भवन्ति। क्षाम:, क्षामवान्। शुष्कः, शुष्कवान्। पक्व:, पक्ववान्। 'द्वयोर्विभाषयोर्मध्ये यो विधिः स नित्य एव' (का० परि० ११) ॥१३९६।