________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः [क० त०]
अवि०। आयूनः। 'आद्यूनः स्यादौदरिको विजिगीषाविवर्जितः' इत्यमरः। सिनो ग्रासः इति ग्रासशब्देन कवल उच्यते। कर्मकर्तृकस्थले एव प्रयोगोऽयम्। अन्यत्र सितः शृङ्खलया चौरः।।१३९४।
[समीक्षा
'आयून:, आद्यूनवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में नकारादेश किया गया है। पाणिनि का सूत्र है- “दिवोऽविजिगीषायाम्' (अ०८।२।४९)। अत: उभयत्र समानता है।
[रूपसिद्धि]
१-२. आयूनः, आयूनवान्। आङ्+दिव्क्त, क्तवन्तु+सि। 'आङ्' उपसर्गपूर्वक “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३।१) धातु से क्त-क्तवन्तु प्रत्यय, “च्छ्वोः शूटौ पञ्चमे च” (४।१।५६) सूत्र से वकार को ऊट, इकार को यकार, प्रकृत सूत्र द्वारा तकार को नकार तथा विभक्तिकार्य।।१३९४।
१३९५. हीघ्रात्रोन्दनुदविन्दां वा [४।६।११०] [सूत्रार्थ
'ह्री-घ्रा-त्रा-उन्द्-नुद्-विद्' धातुओं से परवर्ती निष्ठा-तकार को वैकल्पिक नकारादेश होता है।।१३९५।।
[दु०वृ०]
एभ्यो निष्ठातकारस्य नकारो वा। ह्रीणः, ह्रीणवान्। ह्रीत:, ह्रीतवान्। घ्राण:, घ्राणवान्। घ्रातः, घ्रातवान्। त्राणः, त्राणवान्। त्रातः, वातवान्। उन्दी- समुत्रः, समुत्रवान्। समुत्तः, समुत्तवान्। नुद-नुन्नः, नुन्नवान्। नुत्तः, नुत्तवान्। 'विद विचारे' (६।२४)-वित्रः, विनवान्। वित्त:, वित्तवान्। व्यवस्थितविभाषया नित्यं संज्ञायाम्देवत्रातः। तथा
विचारार्थाद् विभाषैव ज्ञानार्थानित्यमिड् यतः। भोगादन्यत्र लाभार्थात् सत्तार्थाच्च विदेः सदा।।१३९५। [वि०प०]
ही। निन्दायामर्थे च्छा इति प्रकृत्यन्तरम्, तस्यापीत्येके छाणः, छाणवान्। छात:, छातवान्। ह्रीधातोरप्राप्तेऽन्येषां प्राप्ते विकल्प उच्यते। व्यवस्थित इत्यादि। संज्ञायां त्रायतेर्नित्यं भवतीत्यर्थः। केचित् संज्ञायामपि विकल्पयन्तीति भोगादन्यत्र लाभार्थादिति। भित्तर्णवित्ताः शकलाधमणभोगेषु इति वचनाद् भोगे प्रतीते च वित्तमेव, ततोऽन्यत्र सदा विनम्, एवं सत्तार्थादपीति।