________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
६४९ [दु०वृ०]
अस्पर्शे वर्तमानात् श्यायतेर्निष्ठातकारस्य नकारो भवति। शीनं घृतम्, शीनवद् घृतम्। अस्पर्श इति प्रसज्योऽयं नञ्। शीतं वर्तते, शीतं जलम। गुणभूतोऽपि स्पों नत्वप्रतिषेधस्य सम्प्रसारणस्य च निमित्तं भवति, न तु रोमे। तेन प्रतिशीनमिति नत्वं स्यादेव।।१३९२।
[वि०प०]
श्यो। अस्पर्श इत्यादि। अभावमात्रवृत्तिः। प्रसज्य: स्पर्शा यदि न भवति। स्पर्शस्याभावमात्रं चेदित्यर्थः। तेन यत्रापि स्पर्शनिमित्तकः शब्दोऽस्य प्रधानस्तत्रापि स्पर्शस्य सम्भवात् प्रतिषेधः, यथा शीतमिति। एकत्र भावप्रधानम्, अन्यत्र जलम्। गणेति गुणभूतता स्पर्शस्य, न त्वप्रतिषेधस्य सम्प्रसारणस्य चेति "द्रवघनस्पर्शयोः श्यः" (४।१।४६) इत्यनेनेति। गौणमुख्यपरिभाषात्र तत्र च नाद्रियते इति, अन्यथा 'शीतः स्पर्शः' इत्यत्रैव स्यादिति भावः। केचित् प्रसज्यबलादत्र लाघवमेवास्तु सम्प्रसारणस्य तु कथं गुणभूतस्पशें निमित्तम्, मुख्ये हि कार्यसम्प्रत्यये इत्याशङ्का नियमस्यायोगादिति परिहरन्ति। द्वन्द्वे ह्यल्पस्वरस्य पूर्वत्वनियमः कृतः। स च "द्रवघनस्पर्शयोः श्यः" (४।१।४६) इति स्पर्शशब्दस्याल्पस्वरस्य परनिपातं कुर्वता सूत्रकारेणेत्युक्तः स्पर्शोऽत्रानियमेन मुख्यो गौणो वा सम्प्रसारणस्य निमित्तमित्यस्यार्थस्य संसूचनार्थः।।१३९२।
[क० त०]
श्यो०। नन्विति। गुणवाचकोऽत्र स्पशों गृह्यते, न च रोगवाचकः। तेनेति। स्पर्शग्रहणेनेत्यर्थः। पर्खयां केचिद् इत्यादि। अयं तु मन्यते गमकत्वादल्पस्वरस्यापि परनिपातो यथा एषसपर इत्यादि। किन्तु गौणमुख्यपरिभाषाया अनादरणं युक्तमिति नियमस्यायोग्यत्वमेव प्रकटयति-द्वन्द्वे हीति।।१३९२।
[समीक्षा]
'शीनम्, शीनवत्' इत्यादि प्रयोगों के सिद्ध्यर्थ कातन्त्रकार तथा पाणिनि दोनों ने ही नकारादेश का विधान किया है। पाणिनि का सूत्र है- “श्योऽस्पर्श' (अ०८।२।४७)। अत: उभयत्र पूर्ण समानता ही है।
[विशेष वचन] १. केचित् प्रसज्यबलादत्र लाघवमेवास्तु (वि०प०)। २. परनिपातं कुर्वता सूत्रकारेणेत्युक्तः (वि०प०)। ३. अयं तु मन्यते गमकत्वादल्पस्वरस्यापि० (क० त०)। [रूपसिद्धि]
१- २. शीनं घृतम्, शीनवद् घृतम्। श्यैक्त, क्तवन्तु+सि। 'श्यैङ् गतौ' (१।४५९) धातु से क्त-क्तवन्तु प्रत्यय, सम्प्रसारण, प्रकृत सूत्र से तकार को नकार तथा विभक्तिकार्य।।१३९२।