________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
६४३ छद खट्ट संवरणे- छत्रः, छादितः। मारणतोषणनिशामनेषु ज्ञा मानुबन्धश्चज्ञप्तः, ज्ञपितः। इट्टप्रतिषेधे इनो लुग् निपात्यते। ज्ञपेट्त्वान्नित्यमिटप्रतिषेधे प्राप्ते।।१३८५।
[वि०प०]
दान्त०। इनो लुक् चेति। “निष्ठेटीनः" (४।१।३६) इति व्यावृत्त्या अनिटि निष्ठायां कारितलोपो न स्यादित्यर्थः। ज्ञपेरिति। अन्येषामिटि नित्ये प्राप्ते इत्यर्थादुक्तम्। ननु कथं ज्ञपेर्नित्यं प्रतिषेधः? यावता "न डीश्वी०" (४।६।९०) इत्यादावेकस्वरोऽत्र कर्तव्य इत्युक्तम्। ज्ञपिश्चेनन्तोऽनेकस्वर इति। तथा च वेटामेकस्वरस्मृत्येत्यादि दर्शितम्? सत्यम्, एवं मन्यते इनो लुकि निपाते सत्येकस्वर एवायम् एकदेशविकृतस्यानन्यवद्भावादिति ज्ञपिरेवायमिति नित्यं प्रतिषेधः स्यादिति न दोषः।।१३८५।
[क० त०]
दान्त०। दम चेति न केवलं पूरी दैवादिकश्चौरादिकश्च, किन्तु दसधातुरपीत्यर्थः। नन्विनन्तस्यैव वेट्त्वमित्याह- पञ्ज्यामेकदेशविकृतस्येति। टीकायां स्थानिवदिति न्याये सत्यपिनोपधाया दीर्घत्वम्। 'न पादान्त०' (का० परि० १०) इत्यादिना प्रतिषेधादित्यर्थः। सत्यमिति। धातूनामन्त इन् येषामवयव इति बोध्यम्।।१३८५।
[समीक्षा
'दान्त:-दमित:, शान्त:-शमितः' इत्यादि शब्दरूपों की सिद्धि दोनों ही व्याकरणों में वैकल्पिक इट्-प्रतिषेध द्वारा की गई है। पाणिनि का सूत्र है“वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ता:' (अ०७।२।२७)। इस प्रकार उभयत्र पूर्ण समानता ही है।
[रूपसिद्धि]
१-७. दान्तः, दमित:। दम्+क्त+सि। शान्तः, शमितः। शम्+क्त+सि। पूर्णः, पूरितः। पूर्+क्त+सि। दस्तः, दासितः। दस्+क्त+सि। स्पष्टः, स्पाशित:। स्पश्+क्त+सि। छन्नः, छादितः। छद्+क्त+सि। ज्ञप्तः, ज्ञपितः। ज्ञप्+क्त+सि। 'दम्- शम्' इत्यादि धातुओं से 'क्त' प्रत्यय, प्रकृत सूत्र द्वारा वैकल्पिक इनिषेध तथा विभक्तिकार्य। इडागमपक्ष में 'दमितः' इत्यादि शब्दरूप सिद्ध होते हैं।।१३८५। १३८६. रान्निष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः
[४।६।१०१] [सूत्रार्थ
रेफ से परवर्ती निष्ठासंज्ञक क्त-क्तवन्तु प्रत्यय-घटित तकार को नकारादेश होता है पृ, मूर्छ, मद्, ख्या तथा ध्या धातुओं को छोड़कर।।१३८६।