________________
६४४
कातन्त्रव्याकरणम् [दु० वृ०]
रेफात् परस्य निष्ठातकारस्य नकारो भवति, न तु पृमूर्च्छिमदिख्याध्याभ्यः। शीर्णः, शीर्णवान्। गुरी-अवगूर्णः, अवगूर्णवान्। यदि रश्रुतिरपि स्यात् कृतमिति णत्वं न स्याद् ऋकारावयवेन व्यवधानात्। चरितमित्यत्र निष्ठावयवेनेटा व्यवधानात्। कृतस्यापत्यं कार्त्तिरिति 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि०३३) इति। प्रतिषेधः किम्? पृ-पूर्तः। मूर्छा- मूर्तः। मदिख्याध्याभ्यः पराभ्यां प्राप्ते- मत्तः, ख्यातः, ध्यातः।।१३८६।
[वि०प०]
रानिष्ठा०। ऋकारे त्रयः स्वरभागाः सन्ति तन्मध्यवर्ती रेफस्तुरीयभाग: इति नेदं दर्शनमादृतम्। आइतपक्षेऽपि न दोष इत्याह- यदीति। रादिति पञ्चम्या निर्दिष्टे परस्यानन्तरस्यैव, न व्यवहितस्येत्यर्थः।।१३८६।
[क ० त०]
रात्।। ऋकारे रेफश्रुतिर्नास्त्येव, यदि स्यात् तथापि नत्वं न स्याद् इत्याहयदीति। ऋकारावयवेनेति स्वरेणेत्यर्थः। निष्ठावयवेनेत्यादि निष्ठाग्रहणेनेटो ग्रहणम्, न तु निष्ठायास्तकारग्रहणेनेति भावः।
पाठान्तरम्- तस्मात् पूर्वं नड्पाठोऽस्ति। धातुनेति रेफान्तधातुनेत्यर्थः। येन विधिस्तदन्तस्येति न्यायाद् यदि च सम्बन्ध: स्यात् तदा धूर्वप्रभृतेधूर्ण इति न स्याद् धातो रेफान्तत्वाभावात्। जातेराधार इत्यादिवन्न जातिरित्यर्थः। पौर्णिरिति। तकारोपधात् 'पूरी आप्यायने' इत्यस्यौत्वे सति इदं रूपमिति पाठेऽनपसर्गात “फुल्लक्षीब०' इत्यादिना फलेरुत्वं कृत्वा निष्ठातकारस्य लत्वनिपातः। यत्रोकारो निपात्यते तत्रैव बहुलमिति वृद्धावुकारभावे नेत्वाभावोऽपि स्यादिति। असिद्धवदभावे आदृतस्तदा उत्वमुपधाया नत्वमिति पाठो बोद्धव्यः। एतादृशोऽपि निर्देशो भवतीति शिष्यबोधार्थः। अन्यथेति। क्तग्रहणं क्षुभिवाहीत्यत्र त्त-क्तवन्त्वोरेकदेशस्यापि परिग्रहणार्थमित्यर्थ: ।।१३८६।
[समीक्षा]
‘शीर्णः, शीर्णवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में तकार को नकारादेश किया गया है। पाणिनि का सूत्र है- “रदाभ्यां निष्ठातो न: पूर्वस्य च दः'' (अ०८।२।४३)। इस प्रकार प्राय: उभयत्र समानता ही है।
[विशेष वचन]
१. ऋकारे त्रय: स्वरभागाः सन्ति तन्मध्यवर्ती रेफस्तुरीयभाग इति नेदं दर्शनमादृतम् (वि०प०)।
२. एतादृशोऽपि निर्देशो भवतीति शिष्यबोधार्थ: (क०त०)।