________________
६४२
कातन्त्रव्याकरणम् इत्यस्योदनुबन्धत्वानिष्ठायामनिट। 'हृष तुष्टौ' (३।६७) इत्ययं तु मेट। उभयोरपि विभाषेयम्। लोमान्यङ्गजानि मूर्धजानि च गृह्यन्ते। यथा- 'त्यक्तलोमनखं स्पृष्ट्वा शौचं कर्तव्यम्' इति स्मृतिः। हषिलोमसु वर्तमानो लोमकर्तृकः। लोमम्विति किम्? हृष्टश्छात्रः इत्यलीकार्थस्य। हषितश्छात्र इति तुष्टार्थस्य। लोमस्वित्युपलक्षणम्, तेन विस्मय-प्रतिघातयोश्च वा स्यात्- हृष्टः, हृषित:। छात्रो विस्मित इत्यर्थः। हृष्टाः, हृषिता दन्ताः। प्रतिहता इत्यर्थः।।१३८४।
[वि०प०]
हषः। लोमस्विति विषयसप्तमी, अतो हृष्टं लोमभिरित्यभिधेयेऽपि भवनि हष्टानीति, उद्गतानीत्यर्थः। उद्यमेऽत्र हृषिम्, 'हृषु अलीके' (१।२३१) इति– 'अलीकं त्वप्रियेऽनृते' इत्यमरः। तस्य भाव आलोक्यम् अप्रियत्वम् असत्यत्वं वेति कश्चित्। अलीकमुत्साह इत्यन्ये। उभयोरपीति। 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का०परि०४८) इत्यनेन दीर्घत्वम्। “न पदान्त०' (का०परि०१०) इत्यादिना प्रतिषेधादित्यर्थः। सत्यमिति। धातूनामन्त इन् येषामवयव इति बोध्यमित्यर्थः। अङ्गजानीति। मूर्धव्यतिरिक्ताङ्गजानीत्यर्थः, मूर्धजानीति पृथगुपादानात्। क्रियाभिधायी धातुः कथं नाम्नि वर्तते इत्याह– हषिरित्यादि।।१३८४।
[समीक्षा _ 'हष्टानि, हषितानि' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में विकल्प से इडागम का निषेध किया गया है। पाणिनि का सूत्र है- “हषेर्लोमसु" (अ०७।२।२९)। इस प्रकार उभयत्र पूर्ण समानता ही है।
[रूपसिद्धि
१-३. हृष्टानि, हषितानि लोमानि। हष्+क्त जस्। हृष्टम्, हषितं लोमभिः। हष्+ क्त-सि। हृष्टाः, हषिता: केशा:। हृष्+क्त+जस्। 'हषु अलीके' (१।२३१) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से वैकल्पिक इट का निषेध तथा विभक्तिकार्य।।१३८४। १३८५. दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताश्चेनन्ताः
[४।६।१००] [सूत्रार्थ
इन्प्रत्ययान्त दम् आदि धातुओं से 'दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्त' शब्द वैकल्पिक निपातनविधि द्वारा सिद्ध होते हैं।।१३८५।
[दु०वृ०]
एते इनन्ता निपात्यन्ते वा। दान्तः, दमितः। शान्तः, शामतः। पूरी देवादिकश्चौरादिकश्च-पूर्णः, पूरितः। दसु- दस्तः, दासितः। स्पश- स्पष्टः, स्पाशितः।