________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
६४१ [दु० वृ०] एभ्यः क्ते नेड् भवति वा। रुष्टः, रुषित:। "वेषुसहलुभरुष." (४।६।८१) इत्यादिना वेट्त्वात् प्रतिषेधः प्राप्तः। 'अम गतौ' (१।१६०). न तु 'अम रोगे' इति, इनन्तत्वाद् अभ्यान्तः, अभ्यमितः। तूर्णः, त्वरितः। आदनुबन्धाच्चेति प्रतिषेधः प्राप्तः। संघुष्टम्, संघुषितं वाक्यमाह। संघुष्टौ, संघुषितौ दम्यौ। सम्-पूर्वस्य घुषेरविशब्दनेऽपि परत्वादयमेव। आयूर्वस्य स्वन:- आस्वान्तः, आस्वनितो मृदङ्गः। आस्वान्तम्, आस्वनितं मनः। परत्वान्मनोऽभिधानेऽप्ययमेव।।१३८३।
[वि०प०] वा०। तूर्ण इति। स्रिव्यविमविज्वरीत्यादिनोट् ॥१३८३। [क० त०]
वा०। इनन्तादिति। एतेनैकस्वराधिकारोऽनवर्तनीय एवेति। न च विकल्पपक्षे कथन्न स्यादिति वाच्यम्, साहचर्येण भौवादिकस्यैव ग्रहणम्। प्रतिषेधे प्राप्ते इति विभाषेति भावः। संघुष्टमिति, कथनीयमित्यर्थ: ।।१३८३।
[समीक्षा
'रुष्टः, रुषित:' इत्यादि शब्दों की सिद्धि दोनों ही व्याकरणों में वैकल्पिक इट- निषेध से की गयी है। पाणिनि का सूत्र है- "रुष्यमत्वरसंघुषास्वनाम्" (अ०७।२।२८)। इस प्रकार उभयत्र समानता ही है।
[विशेष वचन] १. परत्वान्मनोऽभिधानेऽप्ययमेव (दु०वृ०)। २. साहचर्येण भौवादिकस्यैव ग्रहणम् (क०त०)। [रूपसिद्धि
१-५. रुष्टः, रुषितः। रुष्+क्त+सि। अभ्यान्तः, अभ्यमितः। अभि+अम्+क्त+सि। तूर्णः, त्वरितः। त्वर्+क्त+सि। संघुष्टम, संघुषितं वाक्यमाह। सम्+घुष+क्त+सि। आस्वान्तः, आस्वनितो मृदङ्गः। 'रुष' इत्यादि धातुओं से 'क्त' प्रत्यय, प्रकृत सूत्रं से वैकल्पिक इडभाव, दीर्घ, टकारादेश तथा विभक्तिकार्य। इडागमपक्ष में 'रुषित:' आदि शब्दरूप साधु होते हैं।।१३८३।
१३८४. हृषेर्लोमसु [४।६।९९] [सूत्रार्थ
'क्त प्रत्यय के परे रहते लोम अर्थ में हष् धातु से इडागम का विकल्प से निषेध होता है।।१३८४।
[दु०वृ०]
लोमसु वर्तमानाद् हषे: क्ते नेड् भवति वा। हृष्टानि, हृषितानि लोमानि। हृष्टम्, हृषितं लोमभिः। हृष्टाः, हषिताः केशाः। 'हंषु आलीक्ये'. (१।२३१) १. कमनीयमिति पाठान्तरम्।