________________
६३८
कातन्त्रव्याकरणम
[क० त०]
परि०। 'तृहि वृहि वृद्धौ' (१।२।४७) इति भ्वादिः, 'तृहू तृन्हू हिंसार्थे' ('. ।६९) इति तुदादिः। अत्र तृन्हूरिति तकारवानेव पाठ:-अतां दिति तत्रोदाहतत्वात्। अत्र तु निपातनाद् ‘दृढः' इत्यत्र दकार इति बोद्धव्यम्। तर्हि कथम् इडभावनलोपयोरेवापेक्षया तथाशब्द: समुच्चये? सत्यम्, निपातनमपेक्ष्य तथाशब्द: समुच्चये इति बोध्यम्. कथमन्वथा तकारस्य दकार: स्यात्। ढे ढलोपे दीर्घ इति दीर्घत्वं प्राप्तम्, ततो ह्रस्वोऽपि निपातनीय इति, नैवम्, पज्ञापूर्वकत्वादतो न स्याद इत्युक्तत्वात्। "णेरध्ययने वृत्तम्' (अ०७।२।२६) इति परः। ___ अस्यार्थ:- जोग्निन्तवृतो धातोरध्ययनविषये वृत्तमिति निपात्यते इति: तत् कथमित्याह- कामाते। सिद्धान्तमाह-अन्तर्भूतेनर्थवृत्तेरिति। पद्भ्यां स्थूलोऽपीत्यादि। अत्रायं विशेषः परमते। स्थूलत्वं प्रवृत्तिनिमित्तमादाय बलवत्यभिधानम्। स्वमते तु बलवत्त्वमादाय स्थूले तात्पर्यमिति। किन्तर्हि वृढाविति। ननु कथमिदमुच्यते परिवृद्ध इत्यस्य निपातितत्वात् समुदायादेव स्यात्? सत्यम्, यद्यपि समुदायात् क्रियते तथापि अर्थापत्त्या वृढादेव। यथा- परमोपकुम्भम् इत्यत्र कर्मधारयादपि विभक्तिर्विहिता अर्थापत्त्याऽव्ययाभावादिति। अर्थापत्तिश्चात्र ‘संग्राम युद्धे' (९।२१९) इति ज्ञापकोपन्यास एव। अथ समुदायोपसर्गसहितादेव यथा स्यादित्येतदथों गणे पाठः। तत्राह- एवमपीति। नन् किमति 'ग्राम युद्धे' इति न कृतः पाठः, नाममात्रादिनिति पक्षस्तु तत्र नामाधिकारादेव सिध्यति। तथा च टीकायां 'स्वमनायत' इत्यादावप्यडागम: उपसर्गात् परो भूत इति दर्शितवान् सुमनायेति समुदायस्य धातुत्वे सुशब्दात् पूर्वमेव स्यात्। तथा च आशिषयंतीति नास्तीत्यन्त्यस्वरलोप: यल्लिङ्गादिन् तस्यानेकस्वरत्वाभावात 'संग्राम युद्धे' (९।२१९) इति गणपाठादेव तत्र नामाधिकार इत्यन्यः, अन्यथा न स्यादिति मन्ये।। १३८०।
[समीक्षा
'परिगृढ- दृढ' शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में निपातनविधि का आश्रय लिया गया है। एतदर्थ पाणिनि के दो सूत्र हैं- "दृढः स्थूलबलयोः, प्रभो परिवृढः'' (अ०७।२।२०,२१)। पाणिनीय सूत्रद्वयप्रयुक्त गौरव के अतिरिक्त तो उभयत्र समानता ही कही जा सकती है।
[विशेष वचन १. गणपाठो ज्ञापयति- नाममात्रादिनिति (दु०वृ०। २. मतमिति। वररुचेः सम्मतमित्यर्थः (वि०प०)। ३. सिद्धान्तमाह- अन्तर्भूतेनर्थवृत्तेरिति (क०त० )।