________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
[ रूपसिद्धि]
१. परिवृढः प्रभुः । परि + वृंह+ क्त+सि । 'परि' उपसर्गपूर्वक 'वृन्ह' (१।२४७, ९।१७०) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से निपातन द्वारा इडागम का अभाव, नलोप, हकार को ढकार, तकार को धकार, धकार को ढकार, पूर्ववर्ती कार
का लोप तथा विभक्तिकार्य।
२. दृढो बलवान् । दृन्ह+त+सि। 'दृहि' (१।२४७ ) धातु से 'क्त' प्रत्यय आदि कार्य पूर्ववत् ॥ १३८० ।
१३८१. संनिविभ्योऽर्देः [ ४ । ६ । ९६ ]
६३९
[सूत्रार्थ]
'क्त' प्रत्यय के परे रहते 'सम्-नि-वि' उपसर्गपूर्वक 'अर्द' (१/१६) धातु से इडागम नहीं होता है ।। १३८१ ।
[दु०वृ० ]
संनिविभ्यः परस्यार्दतेः ते नेड् भवति। समर्णः, न्यर्णः, व्यर्णः । निष्ठायामनिपातेष्वित्यन्ये ।। १३८१।
[वि०प०]
संनि०। “दाद् दस्य च'' (४।६।१०२) इति नत्वे रेफात् परस्य नस्य णत्वम्, ततः परस्य टवर्गयोगेणेति। निष्ठायामिति । निपातेषु "लग्नम्लिष्टविरिब्धाः " (४|६|९४) इत्यादिषु सूत्रेषु क्तस्यैवाधिकारो निपातस्य क्तान्तरूपयोगित्वाद् अनिपातसूत्रेषु निष्ठाधिकार एवेत्यन्ये । अयं तु मन्यते क्षुभिवाहीत्यतः क्ताधिकार एवानन्तरो युज्यते । न खलु परोऽपि व्यवहितां निष्ठामधिकृत्य क्तंवन्तुना प्रयोगं दर्शितवानिति।। १३८१।
[क०त०] संनि०। ननु कथं समर्णवानित्याह — निष्ठायामिति । अनिपातेषु सूत्रेषु निष्ठायां परतो भवत्यविशेषादित्यन्ये । स्वमते तु समर्णवानिति न स्यादेव । पयां पर इति तृतीयवादीत्यर्थः ।। १३८१ ।
[समीक्षा]
'समर्ण-न्यर्ण- व्यर्ण' शब्दरूपों की सिद्धि दोनों ही आचार्यों ने इडागम के निषेध से की है। पाणिनि का सूत्र है- "अर्देः संनिविभ्यः " (अ०७।२।२४)। अतः उभयत्र समानता ही है।
[विशेष वचन ]
१. स्वमते तु समर्णवानिति न स्यादेव (क०त० ) ।
२. पञ्ज्यां पर इति तृतीयवादीत्यर्थः (क०त० ) ।