SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः ६३५ विशब्दनप्रतिषेधादिति । नानाशब्दनं विशब्दनम्, यदि पुनश्च॒रादेर्नित्यम् इन् स्यात् तदाऽस्मिन् सूत्रे विशब्दनप्रतिषेधो व्यर्थ: स्यात् । चौगति एव विशब्दने वर्तते स चेनन्तः सन् घुषिरेव भवति । अनेकस्वरश्चासौ एकस्वराधिकारश्चेह वर्तते इति प्राप्तेरभावः। तथेति । यदा मन्थादयः क्तान्तानां क्षुब्धादीनामभिधेय । भवन्ति, न तु विषयास्तदायं प्रतिषेधः । अत्र तु भावे क्त इति विषयत्वं मन्थादीनां कथमिति । तथा च दृश्यते— 'प्रोद्धुष्टं परपुष्टया तव भवत्युच्चैर्वचोऽनेकशः' इति । परिहारमाहप्रकृत्यर्थेति । प्रकृतेरर्थोऽवि - शब्दलक्षणस्तस्य विशेषणादिदमुक्तं भवति । अविशब्दन एवार्थे वर्तमानस्य घुषेरिडभावः । कोकिलयेति पदान्तरसम्बन्धाद् विशब्दनावगम इति ।। १३७८ । [क० त०] क्षुभि० । एकापीयं सप्तमी द्विधा भिद्यतेऽभिधानात् । तथाहि मन्थादिष्वभिधेयेषु यः क्त इति अविशब्दने वर्तमानस्य घुषेश्च य इति सक्तव इति । स च समवाये इत्यस्य रूपम्। गहनमिति अनवगाह्यमित्यर्थः । जुघुषुरिति । अन्यथा प्रत्ययान्तत्वादाम् स्यात्। अनेके चेत्यादि। ननु यद्यनेकार्थत्वाद् भौवादिकोऽपि विशब्दने वर्तते तर्हि कथं ज्ञापकम्, तद्व्यावृत्त्यर्थमेव विशब्दनग्रहणं स्यादिति । नैवम, प्रयोगसिद्ध्यर्थमनेकार्थस्याङ्गीकारस्तत्र न युज्यते व्यावृत्तेर्मुख्यत्वादिति भावः । पञ्ज्यां पौनःपुन्येनेति। एतेन भृशशब्दस्य वारद्वयमुच्चारणमिति बोध्यम् । ननु तथापि कथम् अतिशयाभ्युपगमयोरेव ग्रहणं वृत्तावुक्तम् ? सत्यम्, इष्टिरियं कष्टोऽग्निरित्येव स्यादिति। नन्वग्नेरेव पर्वतस्यापि कृच्छ्रहेतुत्वात् तत् कथमिदमुक्तम् ? सत्यम्, अग्रे कृच्छ्रहेतुता स्पर्शादिना साक्षादेवानुभूयते, पर्वतस्य तु न साक्षादिति किन्तु तत्स्थव्यालादिद्वारा परम्परयेति भेददर्शनार्थमिदमुक्तं तस्य विशेषणादिति तु विशेषणत्वादित्यर्थः। तस्य विशेषणत्वमेव स्फुटयति- इदमित्यादि । एतेन विशब्दने पदं निष्पाद्य पश्चाद् विशब्दनार्थः प्रतीयते इति प्रतिपादितम् ॥ १३७८। [समीक्षा] 'क्षुब्ध-स्वान्त-ध्वान्त' इत्यादि शब्दरूपों की सिद्धि दोनों ही व्याकरणों में इडागम के निषेध से की गई है। अन्तर यह है कि कातन्त्रकार ने इट् का निषेध किया है, जबकि पाणिनि निपातन से इन शब्दों को सिद्ध करते हैं, 'कष्टम्, घुष्टा' में उन्होंने भी इट् का प्रतिषेध ही किया है। उनके तीन सूत्र है - " क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि विस्पष्टस्वरानायासभृशेषु, (अ०७।२।१८,२२,२३)| इस प्रकार विधिभद होने पर भी सामान्यतया उभयत्र समानता ही है। मन्थमनस्तमः सक्ता कषः, घुषिरविशब्द" कृच्छ्रगहन
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy