________________
६३४
कातन्त्रव्याकरणम् बाढं भृशम्। अत्रावृत्त्यातिशयोऽभ्युपगमश्च गृह्यते, न तु शीघ्रार्थः। स्वान्तं मनः। बाह्येष्वविक्षिप्तमित्यर्थः। ध्वान्तं तमः। 'फण गतौ' (१।५३८) फाण्टम्। अनायासनिर्यातत्वात् सद्यो भिषजोद्धतौषधं द्रवद्रव्यमेवेष्यते। कष शिष-कष्टोऽग्निः, कष्ट: पर्वतः। कृच्छ्रहेतुत्वात् कृच्छ्रे गहनमप्युच्यते। कृच्छ्रे दुःखम्। सति मुख्ये गोणेऽप्यभिधानम्। 'घुषिर् शब्दे' (१।४५६) इति भ्वादो- घुष्टा रज्जुः। घुष्टं शरीरम्। 'घुषिर् विशब्दने' (१।२०५;९।१४६) इति चुरादौ। विशब्दने तु स्यादिट्। अवघुषितं वाक्यमाह। विशब्दन इति प्रतिषेधाच्चुरादाविन् स्याद् विभाषयेति। तेनेदं सिद्धम्
_ 'महीपालवचः श्रुत्वा जुघुषुः पुष्पमानवाः' इति। अनेकार्थत्वाद् भौवादिक एव वा विशब्दनेऽपीति। स्वाभिप्रायं शब्देनाविष्कृतवन्त इत्यर्थः।
मन्थादिष्विति किम्? क्षुभित:, वाहितः, स्वनित:, ध्वनित:, फणित:, कषित:. घुषितः। तथा भिन्नाधिकरणेऽपि- क्षुभितं मन्थेन, वाहितं भृशेन, स्वनितं मनसा, ध्वनितं तमसा, फणितम् अनायासेन, कषितं कृच्छ्रेण, घुषितं शरीरेण। कथम् उद्घष्टं कोकिलयेति? प्रकृत्यर्थविशेषणात्। कथं क्षुब्धः समुद्र इति? उपमानाद् भविष्यति ।।१३७८।
[दु० टी०]
क्षुभि०। मन्थादिष्वर्थेष्विति। यदा मन्थादयः क्तवाच्या भवन्ति, तदेटप्रतिषेधः। यदा तु भावे क्तः पदान्तरवाच्यास्तु मन्थादयस्तदा भवन्तीति। एतदुक्तं भवतिक्षुभ्यादीनां मन्थादिविषये इति न सम्बन्धोऽनभिधानात्। क्षुब्धो मन्थ इत्यादि। चलितो मन्थ इति क्षुभिना मन्थविषयं चलनमभिधीयते। फाण्टमित्यनायासं यदश्रपितमपिष्टं द्रव्यम् उदकसम्पर्कमात्राद् विभक्तरसकर्षोऽयमित्येके। अग्निना तप्तं यत् किञ्चिद् वस्तु इत्यपरे। अविद्यमानायासपुरुषोऽन्यो वा फाण्टमित्यपरे। ‘फाण्टचित्रास्त्रपाणयः' इति कथमिदम्? तथा च 'प्रोपुष्टं परपुष्टया तव भवत्युच्चैर्वचोऽनेकशः'। अविशब्दे वर्तमानस्यात्र घुषिरित्यन्तमभिधानात् प्राप्तम्।।१३७८।
[वि०प०]
क्षुभि०। आवृत्त्येति। पौन:पुन्येनेत्यर्थः। अनायासनिर्यातत्वादितिअल्पप्रयास-साध्यत्वादित्यर्थः। न विद्यते आयासो यत्र तदनायासं द्रवद्रव्यमेव कथ्यते। इह कृच्छ्रे कष्टोऽग्निरित्येतदेव स्यात् ‘कष्टः पर्वतः' इति गहने न स्यात्। न हीह कृच्छ्रगहनयोः कष इति सूत्रमस्तीत्याह- कृच्छ्हेतुत्वादिति। गहनमपीति। न केवलमितरं कृच्छ्रकारणम् अग्न्यादिकं कृच्छ्रमित्यपिशब्दार्थ:। कृच्छ्रमित्यादि। ननु यदि कृच्छ्रे दु:खं तस्मिन्नेव स्यात्, न तत्कारणेऽग्न्यादौ? सत्यम्। कृच्छ्रकारणमपि कृच्छ्रमिहोच्यते एतदिति खलु गौणम् मुख्याभावे स्यादित्याह- सतीति। मुख्येऽपि भवतीति। कष्टं वर्तते दुःखमित्यर्थः।