SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ६३० कातन्त्रव्याकरणम् [पाठान्तरम्-टीकायां परत्वादिति। पुनः पूर्वपक्षयति- नित्यमिति। तत्र समाधानमाह– सत्यमित्यादि। यद्यपि तत्र विहितविशेषणं नोक्कम, तथापि तत्वेन युवर्णादिसम्बन्धिकानुबन्ध इति व्याख्यानं पर्यवसितम्। समित्यादि। तत्रेदमप्यङ्गीकृतं स्रादेरेवानिट्पक्ष इति। तत्रेटि सति न स्यात् सकृद्बाधितत्वादिति। तेन तत्रादावेव यत इत्याश्रितम्। तयोरिति श्रुतव्याख्यानात् प्रागनिट्पक्षयोरित्यर्थः। नन् कृतादेर्वापीत्यादि पूर्वपक्षसमाधानमाह- कृतीति। प्रतिपदोक्तेत्यादिसूत्रोक्नवटां ग्रहणार्थमित्यर्थः। पचादीनां च यद्यपि तृचि नित्यानिट्त्वं नास्ति, थलि वेट्त्वमपि नित्यात्वतामिति। ये भिन्नं वक्तव्यमाद्रियन्ते तृचि नेट इति न सम्बध्नन्ति तेषां मतमिदमिति। पूर्वोक्तसिद्धान्तो युक्त इति मन्यमानस्य मतमाह-अन्य आहेति। विभाषेति। नित्यात्वतामिति विभाषा न विहितेत्यर्थः, किन्तु पचप्रभृतानां निषेधोऽस्ति, तेषां थलि नञा निर्दिष्टस्यानित्यत्वात् पक्षे न निषेध इति कुतः पचप्रभृतीनां प्रसङ्गस्तहि कृतीप्रभृतीनामीदनबन्धोऽनर्थकस्तत्राह तस्येति। एतन्मतमयुक्तमिति लक्ष्यते, तस्मान्ना निर्दिष्टमनित्यमिति न्यायात् पक्षे वेट्त्वमस्त्येव। तस्मात् कृत्यादीनामीदनुबन्धो ज्ञापयति वेट्त्वं नानिट्त्वं व्यभिचरत्यपीति। तेन 'बुद्धम्. बुधितम्' इत्यादि। बुधु उदनुबन्ध इति कश्चित् तन्मतमिदमुक्तम्। स्वमते तु युधिव्यधीत्यत्र बुध्यतीति यना निर्देशाद् देवादिकस्यानिड् भौवादिकस्येडस्त्येवेति सिद्धं बोध्यम् ।।१३७५। [समीक्षा 'शून:, लग्नवान्, गूढः' इत्यादि शब्दरूपों की सिद्धि दोनों व्याकरणों में इडागम के निषेध से की गयी है। एतदर्थ पाणिनि के दो सूत्र हैं- "श्वीदितो निष्ठायाम, यस्य विभाषा'' (अ०७।२।१४,१५)। पाणिनीय सूत्रद्वयप्रयुक्त गौरव को छोड़कर शेष तो उभयत्र समानता ही है। [विशेष वचन] १. अन्य आह- ना निर्दिष्टत्वात् सिद्धिः (द०टी०)। २. केचित् शीङ्-पूङ्-इत्यादौ डीङ्ग्रहणं गुणार्थमाचक्षते (वि०प०)। ३. वृत्तिकारस्य तु मतं शीपङित्यादौ डीङ्ग्रहणाभावात् (वि०प०)। ४. वृत्तिकारमते डीन:, डीनवान् इत्येव भवति (क० त०)। [रूपसिद्धि १-१२. उड्डीनः, उड्डीनवान्। उद्+डीङ्+क्त, क्तवन्तु-सि। शूनः, शूनवान्। श्वि-क्त, क्तवन्तु-सि। दीप्तः, दीप्तवान्। दीप्+क्त, क्तवन्तु-सि। लग्नः, लग्नवान्। लस्जीक्त, क्तवन्तु+सि। गूढः, गूढवान्। गुहू+क्त, क्तवन्तु-सि। शान्तः, शान्तवान्। शमुक्त, क्तवन्तु-सि। उद्-उपसर्गपूर्वक डीङ्, श्वि इत्यादि धातुओं से क्त, क्तवन्तु प्रत्यय, प्रकृत सूत्र से इडागम का निषेध, तकार को नकारादेश, उकार को दीर्घ तथा विभक्तिकार्य।।१३७५।।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy