SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ६२८ कातन्त्रव्याकरणम् [दु०३०] एभ्यो धातुभ्यः पतिनिष्कुपवर्जितेभ्यो निष्टायां नेड् भवति। उड्डानः, उडीनवान्। शूनः. शूनवान्। दीपा-दीप्तः, दीप्तवान्। ओ लम्जी-लग्नः, लग्नवान्। लम्जेरोदनुबन्धत्वाद् इड् भवेण्णत्वं स्याद् ईदनुबन्धः किमिति चेत्? सविकल्पकं वा ज्ञापकं स्यादिति, तथा डीवी च कर्तव्यो। विकल्पेटां च गहू-गूढः, गूढवान्। शमु-शान्तः. शान्तवान्। अपतिनिष्कुघोरिति किम्? पतितः, पतितवान्, निषितः, निष्कुषितवान्। कथं दरिद्रितः, दरिद्रतवान्? एकस्वरोऽत्र स्मर्तव्यः। अपतिनिष्कुषोरिति पर्युदासाद् वा।। १३७७ ! [दु० टी०] न डी०। श्विडीङावोदनुबन्धौ डायति यणं पठन्यके। तेन भौवादिकस्य डीङ: डयित:, डयितवानिनि। लस्जेरित्यादि। ओदनुवन्ध एव ज्ञापको निष्ठायामिडभाव:, स हि नत्वार्थ उपदिश्यते। नत्वं चौदनुबन्धादनन्तरस्य निष्ठातकारस्य विधीयते। यदि पुनरिट् स्याद् व्यवधानार्थत्वान्नत्वमेव न स्यादित्यर्थः। वाग्रहणेनैतत् सूचितम्, इटा व्यवधानबलान भवतीति स्वादय ओदनुबन्धास्तत्र पाठाद् डीङोदनुबन्ध इत्यर्थः। 'टु ओ श्वि' (१।६१६)-ननु श्वयतेः सम्प्रसारणे कृते "न ,युवर्णवृतां कानुबन्धे" (४।६।७९) इति प्रतिषेधो भविष्यति परत्वादिट् स्यान्नित्यं सम्प्रसारणम्। इह पुनरनित्य इति? सत्यम्, तत्र विहितविशेषणमुक्तम् 'सकृद् बाधितो विधिर्बाधित एव' (का परि०५७) इति, तस्मात् श्वयतिग्रहणमेव तयोर्लिङ्ग भविष्यतीति स्थितम्। विकल्पेटां चेति। उदनुबन्धत्वाद् वेत्युक्तम्। एवं गाहू-गाढः, गाढवान्। "उदनुबन्धपूक्लिशां वा'' (४।६।८४) इत्युक्तम्। वृध्-वृद्धः, वृद्धवान्। "गमहनविदविशां वा' (४।६।७७) इत्यत्रान्विकरणस्य विदेर्ग्रहणात् तस्यैव निष्ठायामिटप्रतिषेधो वेत्तेरिट भवत्येव- विदितः, विदितवान्। ननु कृतादेर्वापि सेऽसिचीति वेट्त्वेऽपि 'कृती-घृती-नृती' एषामीदनुबन्धः प्रतिपदोक्तयोगे लिङ्गम्। तेन तृचि अनिट्त्वमनपेक्ष्य ये मन्यन्ते तमतमाश्रित्योक्तम्। एतच्च यथाकथञ्चित् कृतीप्रभृतीनाम्, न तु वेट्त्वेनानिट्त्वं क्वचिद् व्यभिचरति। यथा बुद्धम्, चुधितम्। अपतीत्यादि। नित्यात्वतां वेट थलीति पतित:, पतितवानित्यत्र प्रतिषेधो न स्यात्। अन्य आह- ना निर्दिष्टत्वात् सिद्धिर्न विभाषा तस्य च विकृत इत्यनेन "इवन्तर्द्ध०" (३।७।३३) इत्यादिना प्राप्तः प्रतिषिध्यते, निष्कुषेश्चात एव वर्जनाद् वेट्त्वमुक्तमेव। कथमित्यादि। 'अर्तीण्यसैकस्वराताम्' (४।६।७६) · इति योगविभागादित्यर्थः। अथवा प्रतिनिष्कुषावेकस्वरौ तत्सदृशा वेटोऽप्येकस्वरा इत्यर्थः।। १३७५
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy