________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
[दु०टी० ]
털이
| इटो दीर्घ इति योगविभागात् पक्षे दीर्घः - जरीत्वा। लाक्षणिकत्वादिति।
निरनुबन्धः कैयादिक इह गृह्यते, न नृषेति षानुबन्धो दैवादिक इत्यर्थः । भाष्ये त्वविशेष एव गृह्यते। व्रश्चेरित्यादि । 'व्रश्च छेदने' (५।१९) इत्यस्माद् ऊदनुबन्धाद् विभाषा सिद्धा। जृधातोश्च "न युवर्णवृतां कानुबन्धे " ( ४।६।७९) इति प्रतिषेधाद् विभाषाऽपि न सम्बध्यते साहचर्यादिति भावः । तस्मादुत्तरार्थं क्रियमाणमिहापि सुखार्थं भवतीति न दोषः ।। १३७० ।
[वि०प०]
६२३
नृ०। कथं जरीत्वेति ? सत्यम् । " इटो दीर्घो ग्रहेरपरोक्षायाम्" (३।७।१२) इत्यत्र योगविभागाद् इट: पक्षे दीर्घः । लाक्षणिकत्वादिति । तत् पुनः ‘‘योऽनुबन्धोऽप्रयोगी’’ (३।८।३१) इति वचनानुप्रवेशात्। 'नॄ वयोहानौ' (८।२० ) क्रैयादिको गृह्यते, ‘जृष् सॄष् वयोहानौ' (३।१८) दैवादिको निरस्यते इति। ननु इडधिकारे किमर्थं पुनरिड्ग्रहणम् ? नित्यार्थमिति चेत्, ना विकल्पाधिकारे हि व्रश्चिग्रहणमनर्थकं स्यात्, ऊदनुबन्धत्वात् स्वरतिसूतीत्यादिनैव विकल्प: सिद्धस्तत्साहचर्यात् नृधातोरपि "न युवर्ण ० " (४।६।७९) इत्यादिना निषिद्धेटोऽपि नित्यमिड् भवति ? सत्यम्, उत्तरार्थं क्रियमाणमिह सुखार्थमित्याह— व्रश्चेरित्यादि।।१३७०।
[क०त०]
नृण । उत्तरत्र वानिवृत्त्यर्थमिति । ननु 'लुभो विमोहने' (४।६।८६ ) इति सूत्रोपादानाद् वाधिकारो निवर्त्तिष्यते, अन्यथा “वेषुसह ० " ( ४।६।८१ ) इत्यादिना विकल्पः सिद्ध एव? सत्यम्, क्त्वाप्रत्यये विमोहने विभाषा विमोहनादन्यत्र न स्याद् . इत्येतदर्थमपि सूत्रं स्यादिति पुनरिग्रहणम् ॥ १३७० ।
[समीक्षा]
'जरित्वा-जरीत्वा-व्रश्चित्वा' शब्दरूपों के सिद्ध्यर्थ दोनों ही शाब्दिकाचार्यों ने इडागम का विधान किया है। पाणिनि का सूत्र है - "त्रक्ष्यो: क्त्वि" (अ०७/२/५५) । इस प्रकार उभयत्र पूर्ण समानता ही है।
[ विशेष वचन ]
१. भाष्ये त्वविशेष एव गृह्यते ( दु०टी० ) |
२. उत्तरार्थं क्रियमाणमिहापि सुखार्थं भवति ( दु०टी० ) | [रूपसिद्धि]
१- ३. जरीत्वा, जरित्वा । जृ + इट् + क्त्वा + सि। व्रश्चित्वा । व्रश्च + इट् + क्त्वा+सि। 'नृ-व्रश्च्' धातुओं से क्त्वा प्रत्यय, इडागम, दीर्घ तथा विभक्तिकार्य ।। १३७०।